________________
जान्युआरी - २०१३
जिनपतिपुरो नृत्यद्दिव्याङ्गनाजनवादिता
तिगुरुमरुजवानैश्चैत्यावली खलु गर्जति । विबुधभवनान्युच्चैर्नीत्वा ध्वजाञ्चलवायुभि
लघुतरतया मुक्ताधारे भ्रमन्ति नभोऽध्वनि ॥५॥ भवजलनिधौ मज्जज्जीवव्रजोद्धरणाशया,
प्रवहणततिर्धामा सज्जीकृतेव कृपालुना । नवजिनगृहश्रेणीव्याजान्निजध्वजविभ्रमै
रिति निदिशतीवाऽत्राऽऽयन्तु ध्रुवं शिवलिप्सवः ॥६॥ अनलसरसा वेशादेशादुपेत्य सुरासुरा,
जिनपतिपरिक्लृप्ताऽर्चासु स्वभावविभावनम् । मधुरमदधुर्नृत्यादृत्या ततिर्जिनवेश्मनां,
तदनुकुरुतेऽभ्यासाल्लास्यं चलाचलकेतनैः ।।७।। जगदपि वशीचक्रे येनाऽभयेन मनोभुवा,
___ सहचरमधोः सांनिध्येनाऽधिकेन धनुर्बुताम् । तमथ सहसा जित्वा तीर्थप्रभुः स्थितवानिह,
विलसति ततः केतुर्हेतुर्जयस्य तदीयकः ॥८॥ त्रिजगतिगतिः पावित्र्यं वा विचित्रजलागमे
प्यमरमनुजैः पूज्यं तीर्थं समर्थमनर्थहृत् । इति बहुयशो गङ्गारङ्गादलप्स्यत सिन्धुषु,
कथमिह न चेत् केतूभूयाऽकरिष्यत सेवनाम् ॥९॥ सुरपुरवराद्देवा देव्यो जिनेन्द्रनिनंसया,
सरभसतयाऽभ्यायान्तीति ध्रुवं गगनाध्वनिम् । सृजति सुतरां चैत्यश्रेणी स्वकेतनवाससा,
___ चरणरजसामातिथ्येनोत्सुका परिमार्जनम् ॥१०॥ क्षितितलमलं चैत्यश्रेणी निजामलकेतुभिः, .
___सपदि धवलीचक्रे सम्यग्दृशां मनसा समम् । गगनमलिनीभावं दूराच्चिकीर्षुरिवोच्चकैः,
क्षिपति विलसत्केतुं हेतुं द्रुतं धवलश्रियाम् ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org