SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ ३७ अथ तृतीयाधिकारे श्रीपरमगुरुराजवर्णनं, यथा - अनाहार्या भूषा भवति वपुषः का, नरपतेः, प्रियः संग्रामे कः, किमिह कुसुमं दानतरुजम् । रवेर्लक्ष्मी का स्याद्, भवति सुकृतात् किं जनहितं, पुरस्ताद् युद्धे कः, किमिह गृहिणां मण्डनमहो ॥१॥ विद्या, जयः, यशः, प्रभा, भद्रं, शूरः, रित्थम् । एषां यदन्त्याक्षरमार्जनेन, पुरोगवर्णैर्मिलितैः क्रमेण ।। येषां भवेत् श्रीसहिताऽभिधाऽस्मिन्, भट्टारकांस्तानथ संस्तवीमि ॥२॥ भट्टारकश्रीविजयप्रभसूरिः । प्रश्नोत्तरजातिः । 'जननतः शुचिरागमनायकः, स नयतां गणभृद्विजयप्रभः । जननतः शुचिरागमना यकः, सनयतां गणभृद् विजयप्रभः ॥३॥ समुद्गकचित्रं पादयमकं च । जयति भानलदेतनुजश्चिरं, जयविभारुचितो जनुषध्यरम् । जनितभावभरैरनुसञ्चरद्, जनशुभाशय एष नुतोत्तरः ॥४॥ अकण्ठ्यव्यञ्जनं बीजपूरचित्रम् । भवप्रिया विश्वसुखप्रदा का, डाः के षिदां विसहमुक्तशङ्काः । रतेः पदं किं प्रवदन्ति लोकाः, कः स्वैर्धनैरत्र बिभर्ति रङ्कान् ॥५॥ श्रीवल्लभः कः सुमनो हृदो का:, विद्वान् किरातीयकृदत्र कः का । जगत्प्रसारोद्धरणक्षमा का, यत्नात् कृताः शोभनसाधुताः काः ॥६॥ प्रकर्षतः कं प्रणयन्त्यभीकाः, भवेच्च को मोचयिता कलङ्कात् । सूदं स्मरादर्हति कः शशाका-रिष्टं निहन्तुं भुवि कः सुधीकः ॥७॥ सूर्यमुखीपुष्पचित्रम्, प्रश्नोत्तरजातिश्च । १. जननत:- जन्मतः वंशतो वा शुचिः- पवित्रः । आगमः परम्परा तस्य पतिः । २. यक:- यः ईदृशः स गणभृद् विजयप्रभः सनयतां- न्यायवत्तां नयतां- प्रापयताम् । किं० जनैः प्रणतः शुचौ- शुद्ध धवले वा रागस्तत्र मनो यस्य सः । पुनः किंविशिष्टः? गणभृद्- ईश्वरः, तद्वत् विजयस्य प्रभा यस्य सः । *प्रश्नस्याऽस्योत्तरं कोष्टके नाऽस्ति -सं. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy