SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जान्युआरी २०१३ वंशावतंसे निजकीयनाथे, भक्तेरुपायं नितमां दधत्सु । सायं वराऽर्हद्गुरुवंशगाना - न्नारीजनेष्वस्ति सुधर्मभावः ||२६|| द्वाभ्यां दर्पणचित्रम् । धनं धनं मानवनन्दनं वनं, जनः सनर्भानवनन्दनः पुनः घनस्वनस्तानमनं कनं वनं, श्रीनन्दनन्दानदिनं सुनन्दिनः ॥२७॥ एतानि सर्वाण्यपि यन्नगर्यां वर्यां सपर्यां प्रथयन्ति लोके । स्वर्वासिनां स्वर्गनिवासकर्म - सुवासनां च श्लथयन्ति सद्यः ||२८|| गोमूत्रिकाचित्रेण चतुर्विंशतिदलकमलचित्रेण वा सममर्थतो युग्मम् । वसन्ति यस्यां नवभूषणान्विता, वदान्यमुख्या भुवनाभिनन्दिनः । वरिष्ठदानैरवनौ सुनीरदाः, वंशावतंसाः शिवमार्गसाधकाः ॥ २९ ॥ कामस्वरूपा धनदाधिकाः श्रिया, तालध्वज श्रीविभुताद्भुताः सदा । नरेन्द्रमान्या वरपूजने लया दाद्यप्रभोस्ते रसिका महर्द्धिकाः ||३०|| युग्मम्, अष्टारचक्रचित्रम् । विलासिनीनां कलगानमङ्गलै - महं गता सर्वसुरासुरादयः । स्वमानिनीमिः सह मानवस्थले - ऽन्वहं समीयुर्वसुधाकृतोदयम् ॥३१॥ नागसङ्गमचित्रम् | जिनेन्द्रचैत्याग्रिमगोपुरस्फुरत्- कपाटलक्ष्मीपटुतादिह क्षया । साक्षादिवायादिह देवसायकः, शिरः स्थितश्वेतगजेऽधिरुह्य सः ॥३२॥ गजराजः पुरोभाग-गर्भारोहादिना नगः । गणनायकसाराङ्ग-गलांसाक्षः सुराजगः ॥३३॥ सद्भाजनस्तत्त्वविचारवेदी, सभाजनव्याप्तमना मुनीनाम् । स भाजनं श्रेष्ठविदां जहार, सभां जनं श्रीजिनपूजनेन ||३४|| Jain Education International ३५ मालतीपुष्पचित्रम् | पदादियमकम् । लङ्कापि रङ्काशयभृद् यदग्रे, प्रभाऽपि साऽऽभात् किल निष्प्रभावा । तस्याः सुपुर्या विबुधाश्रितायाः, सप्तच्छदीत्याह्वयविश्रुतायाः ||३५|| स्मरन्निव स्मेरमनोम्बुजात - र्जाग्रत्स्वरूपं गुरुराजरूपम् । तद्वासनाद्वैतसुधासरस्यां, ललन्निवाऽनन्तरसप्रसङ्गे ||३६|| For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy