SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ का मानमानन्दकृते पतीनां, नारी न धत्ते धृतशीलसारम् । रसालसा रम्यवपुः स्वरूपा-ऽपाङ्गेक्षणक्षोभितदेवतारम् ॥१०॥ द्वाभ्यां सिंहासनचित्रम् नालीकभाजः सुतरङ्गसम्पदः पदं रसानां रणदुच्चहंसकाः । नार्यो विलासिप्रसवैमनोरमाः, समाः सरस्यश्च सुमार्गपालिकाः ॥११॥ द्वयर्थः । सिंहासनस्य पृष्ठे फलकचित्रम् । श्रीवीरुधां पल्लवने पयोधरः, श्रीकण्ठवद् यत्र महाव्रती चिरम् । विवस्वदुद्भासितप्रभाभरः, जयस्तपोभिः स्मरयोधमुद्धरम् । . यतीश्वरस्तिष्ठति लोकशङ्करः ॥१२॥ पञ्चपदी प्रज्ञानिधिस्तस्य जनो निरन्तरं, भक्तिं करोति प्रसभं धनाकरः । सूर्योदये दानविधिं दधत्परं, रित्थैर्मुदा पूरयतेऽर्थिनां करम् ॥१३॥ सिंहासनोपरितनं पुष्पम् । सर्वाङ्गीणोपतापं हरति सरसिजालीषु लीनोच्चहसं, सम्यग्विस्तारिवारिप्रवरशमभृतां तीर्थतीरप्रदेशम् । संसक्तं वीचिरोचिर्मुदितशफरिकानर्त्तनं सप्रशंसं, संसाराम्भःसरस्यं निहितसरिदयं यत्र यक्षेन्द्रवासम् ॥१४॥ श्रीवत्सचित्रम् । तीर्थं श्रीवरकाणपार्श्वभगवद्दीप्रप्रदीपोदितं, तद्दिव्याः पददं परीतममरैर्नेतुर्जयश्रीकरम् । प्रोल्लासेन विनोदकारि जगतां यत्र त्रयं वासवावासस्य भ्रममभ्रसङ्गिशिखरैर्धत्ते जिनासेवने ॥१५॥ मत्स्ययुगलचित्रम् । यत्र श्रीपरमेशितुः गणपतेः पादाम्बुजन्यासतः, सन्तस्तं परिपूजयन्ति जगतीदेशं सुरूप्यादिभिः । १. "पाथोजनेत्राः" इत्यपि पाठान्तरं । २. "पाठीनपोतैः प्रमदामनोरमा" इत्यपि पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy