________________
जान्युआरी - २०१३
कराम्बुजारूढरुंचात्र देवो भक्त्या नतं मां सततं सर्मान्तं । तनोतु सिद्धेर्महसां समृद्धं, स साहसं भासुररंसुभासम् ।।१८।।
रथचित्रम् कविसम्पत्कयासन्ध, वितराशावशावश । सरां तर शयाशायां, पसार तत शम्बक ॥१९॥ अर्द्धभ्रमचित्रम् कपालशोभं गिरिशं कलङ्क-करं कविं तन्वमना भजेत्कः । कजे भवन्तं मनसीशमेकं कमेशयालुं धृतशीलपाकम् ॥२०॥
कमलचित्रम् करप्रसादं कमलां नितान्तं देहीश ! शोभा महसां प्रकाशम् । शम्भो ! क्रमाम्भोजमहं श्रितोऽस्मि सदाऽवदातं कृतसातजातम् ॥२१॥
ध्वजचित्रम् तं देवं शाश्वतश्रीसमुदितमहसानन्तरूपं भदन्तं त्रस्तानां सातदाने सुरतसमरुजं तत्त्वबोधं कतन्त्रम् । नत्वा सन्तं सुरेशार्चितमुदयभृतं शुक्लमांसान्तभाज तन्वन्तं नाथ ! भावं तनुसुभगतराकारतः सङ्कसन्तम् ॥२२॥ इति श्रीचित्रकोशकाव्ये लेखरूपे श्रीजिनवर्णनाधिकारः ।
नगरवर्णनादिकं समाचारचक्रमप्यन्तरान्तर्गतः ।
अथ श्रीगुरुराजवर्णनम् स्वस्तिश्रीरमणीमणीस्रजमिव श्रेणी नखानां विभोर्यस्याऽवेक्ष्य वितर्कयन्ति कवयः शोणत्विषं भेजुषीम् ।
१. कया २. मा. लक्ष्मी तस्या अन्तं-निश्चयः तेन सहवर्त्तते समांतः तं समान्तं, अन्तः स्वरूपे
निकटे प्रान्ते निश्चयनाशयोरवयवेपीति - अनेकार्थः । ३. हे कविसम्पत् ! कया संधा प्रतिज्ञा । ४. तव स्तव कर्तुमशक्य इत्मनः । ५. शुक्लं मांसे येषु ईदृशा अन्ताः अवयवाः तेषु भानं शोभने यस्य ते, अन्तः
स्वरूपे निकटे प्रान्ते निश्चयनाशयोरवयवेऽपीति । ६. रक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org