SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क (२) भ. श्रीविजयप्रभसरिं प्रति प्रेषितं महोपाध्याय श्रीमेघविजयगणिगुम्फितं श्रीगुरुविज्ञप्तिलेखरूपं चित्रकोश-काव्यम् २८ स्वस्तिश्रीसर्दनं भजानि सुगं श्रीविश्वसेनाङ्गजं, स्वस्तिश्रीसदनं भजानिसुभंगं श्रीविश्वसेनाङ्गजम् । स्वस्तिश्रीसँदनं भर्जानिसुभगं श्रीविश्वसेनाङ्गजस्वस्तिश्रीसदनं भजानिसुर्भगश्रीविश्वसेनाङ्गजम् ॥१॥ खण्ड १ महायमकालङ्कारकाव्यम् I अहं श्रीविश्वसेनाङ्गजं भजानि-सेवां करवाणि । किं० ? मङ्गललक्ष्मीगृहं । पुनः किं० ? सुभगं - सौभाग्यभाजम् । अथास्य व्याख्या Jain Education International हो. विनयसागर स्व:- स्वर्गस्य भावः स्वस्ता, सा विद्यते येषां ते स्वस्तिनो - देवास्तेषां श्री: - कान्तिः तस्याः सदनं प्रापणं यस्मात् स तम् । भानि - नक्षत्राणि जाया यस्य स भजानि-श्चन्द्रस्तद्वत्तेजस्विनं । पुनः किं० ? श्रीश्च विश्वञ्च जगत् सेनायां अनुचरत्येने (?) येषां ईदृशाः अङ्गजाः पुत्रा यस्य स तम् । पुनः किं० ? स्वस्तिरूपा श्रीर्वप्रत्रयरूपा तस्यां सीदति - तिष्ठतीति स्वस्तिश्रीसत् । न विद्यते नो-बन्धः कर्मणां यस्य स अनस्ततो विशेषणसमासस्तम् । भजन्ते-सेवन्ते ते भजा:- सेवकाः पचाद्यच् । ईदृशा: आनिन:- प्राणिनस्तेषां शुभं - शुभकर्म स्मरणादि, तद् गच्छति - प्राप्नोति इति तथा तम् । - पुनः किं० ? श्रिया युक्तं विश्वं जगत् सेना यस्य ईदृक् अङ्गज:कन्दर्पस्तस्य या स्वस्ति श्रीर्दिव्य- लक्ष्मीस्तस्याः सदनं - विशरणं यस्मात् स तं कामजेतृत्वात् । पुनः किं० ? भजानिश्चन्द्रश्च सुष्ठु - शोभनो भगः सूर्यः तयो: श्री: शोभा लक्ष्मीर्वा, विश्वानि - समग्राणि सेनाङ्गानि - हयादीनि जनयतीति भजानि१. गृहम् २. सौभाग्यभाजम् ३. तेजस्विनम् ४. स्वस्तिश्रीसच्चाऽनश्च स्वस्ति श्रीसदनम् ५. नो बुद्धौ ज्ञानबन्धयोरिति सुधाकलशः ६. भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु, रूपवीर्यप्रपन्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥ इत्यनेकार्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy