________________
जान्युआरी - २०१३
रामजी-रामविजयौ, दन्ताख्यग्रामसुस्थितौ । इत्यादयः ससङ्घास्ते, प्रणमन्ति प्रभोः क्रमान् ॥३०६॥ . तथाऽत्रत्यः सङ्घः प्रणमतितरां भव्यविधिना विधायोमापुत्राम्बकततिमितावर्तकनतिम् । नितान्तं ताताज्ञां शिरसि निवहन् पुष्पपटलीमिवाऽऽसाद्याऽऽमोदं मुदितमनसाऽनूनकलया ॥३०७।। आनन्दकारी विबुधव्रजाना-माह्लाददः श्रोतृजनव्रजेषु । यस्य ध्वनिर्धावति धूतपक्षः, स्वपक्षरक्षाक्षणबद्धकक्षः ॥३०८।। विद्वेषिमार्जारभयप्रणाशी, प्रेक्षावतां रञ्जतु मानसानि । नवाङ्कषट्कैरवबन्धु (१६९९) वर्षे, दीपालिकापर्वणि लब्धजन्मा ॥३०९।। श्रीमद्गणाधीशगुणप्रकर्ष-मुक्ताफलस्रग्लतयाऽभिरामः । क्रीडन् गणाधीशशयाब्जयुग्मे, सोऽनघे सौख्यकरोऽस्तु शश्वत् ॥३१०॥ यतिततिपतिभक्तिव्यक्तिसम्पूर्णचेताः प्रथमविशदवृत्ताभ्यासनिर्माणदक्षः । प्रणमति सुविशेषात् तातपादाब्जयुग्मं .
सदुदयविजयाह्नः सिद्धिवृद्ध्यै श्रिये च ॥३११।। ॥ इति लेखक-वाचक-श्रोतृणां लेखराजहंसः कल्याणमालायै भवतात् ।।
-X
C/o. 'अरिहंत' समृद्धि पासे, हाई वे
डीसा (ब.कां.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org