________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
शान्तेविजयमुनीनां, चीवरवरकोशरक्षणपराणाम् । लालादिमविजयानां, मुमुक्षुसन्तोषणपराणाम् ।।२९२।। सुप्रीतप्रीतिसागर-नामकदमिनां गणित्वयुक्तानाम् । शैक्षकउत्तमसागर-नाम्नामाह्लादितान्यधियाम् ॥२९३।। षष्ठाष्टमादितपसो, विधायकानां सुपार्श्वविजयानाम् । गणिवरमतिविजयानां, गोचरविधिसावधानानाम् ॥२९४।। मुनिगजसागरनाम्नां, जयादिविजयाभिधानसाधूनाम् । रत्नत्रयसत्यापन-कुशलानां रत्नकुशलानाम् ।।२९५।। चाम्पश्री-प्रेमजी( श्री)-सहजश्रीप्रभृतिसाधु-साध्वीनाम् । नत्यनुनती प्रसाद्ये, अत्रत्यानां मुनिजनानाम् ॥२९६।। प्रीतेविमलबुधानां, रोहाभिधग्रामवेदभासकृताम् । लालकुशलाख्यविदुषां, शिष्याध्यापनप्रवीणानाम् ॥२९७॥ गणिहस्तिविजयनाम्नां, रु(ऋद्धिसोमाभिधानशमिनां च । सत्यादिमविजयानां, सिद्धेविजयाभिधानानाम् ॥२९८॥ दीपाद्विजयमुनीनां, गणिदर्शनविजयसझकयतीनाम् । उदयविजयाभिधानां, सुमुक्तिपदयुक्तविजयानाम् ॥२९९।। दर्शनविजयगणीनां, हर्षादिमविजयसज्ज्ञकगणीनाम् । गणिवीरकुशलनाम्नां, जीताद्विजयाभिधानानाम् ॥३००।। वीरादिमविजयानां, शिवपदसंयोजनाप्तविजयानाम् । लक्ष्मीविजयगणीनां, रविविजयानां गणित्वजुषाम् ॥३०१॥ कुशलादिमविजयानां, लब्ध्यादिमकुशलसञ्जकमुनीनाम् । ऋषिलाडिकाख्यदमिनां, देवय॑भिधानधातृणाम् ॥३०२॥ मुनिविजयसोमनाम्नां, चाम्पर्षि-वृद्धिविजयदमिनां च । वृद्धिविमलाख्यशमिनां, मेराख्यऋषेश्च किञ्चाऽन्यत् ॥३०३॥
(विद्याविमलाभिधानस्य) डाभेलाख्यं स्थितः सत्य-विजयः कुरपालयुक् । प्रह्लादनपुरे विज्ञाः, विबुधादिमसागराः ॥३०४।। गोलाग्रामे स्थिता: श्रेष्ठे, रवेविमलसज्ञकाः । पार्श्वस्थिते राजपुरे, देवाद्विजयनामकाः ॥३०५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org