________________
जान्युआरी - २०१३
२३
तमपथदशशतकिरणं, पञ्चजनप्रतिशरणसमचरणम् । गणसिन्धुशीतकिरणं, नवपातकपङ्कभरहरणम् ॥२५२।। कमलैकतुल्यचरणं, मदरेणुमरुत्समानताधरणम् । लब्धिविधिनीतिकरणं, विश्वामण्डलविभाकरणम् ॥२५३।। कारुण्यासमभवनं, सम्पूर्णप्रवरशीतकरवदनम् । नयनविभावरनलिनं, दर्शनसम्मोदिताङ्गिजनम् ।।२५४।। शशधरकरवरसुगुणं, संसारस्यैकतारणं तरणम् । तपनीयचारुकरणं, कितवदिवान्धैकवरतपनम् ॥२५५।। रवगर्जत्सजलघनं, नैकमहः श्रीनिवासपदनलिनम् । कष्टौघकंसभेदन-संवररिपुजनकतुल्यगुणम् ।।२५६।। मदमत्तमहावारण-मतङ्गजारिं मनोभवेशानम् । हंसगमनासमानं, वरतेजःपादपालिवनम् ॥२५७।। देवीविगीतगानं, श्रीमद्गुरुविजयदेवनामानम् । विद्याक्षितिरुहकानन-जलदसमानैकमहिमानम् ।।२५८|| यतनाविधाननिपुणं, देशनया रज्य(ज्य)मानमघवानम् । वचनरचनासमानं, सूरिसमज्यारमाभरणम् ।।२५९।। रिक्तीभवदभिमानं, कासारसमं महोजले(लैः) पूर्णम् । मिषभेदविधिविधानं, तन्त्रादिवशीकृतौ निपुणम् ॥२६०।। वर्णितशास्त्रार्थगणं, रम्यरमानिकरकेलिवरभवनम् । कार्यङ्गतततकदनं, मन्दरगिरितुल्यमहिमानम् ॥२६१।। कुमतिमदमृगमृगेनं, भज भो जन! प्रवरसूरिराजानम् । निजविद्योतितजननं, भक्तमनोवनकुरङ्गेनम् ॥२६२।। इन्द्राणीमनमोहन-यश:समूहं प्रसारिसज्ज्ञानम् । पण्डितसंशयहरणं, रिपुगणसम्भेदिसद्ध्यानम् ॥२६३।।
॥ ४८ दलकमलम् ।। द्वादशभिः कुलकम् ॥ नवीमि सूरिराजानं, ब्रह्माण्डसुयशोवधिम् । कल्पितानल्पदातारं, सुराचार्यलसन्मतिम् ॥२६४॥ वन्दितानेकराजानं, स्वस्तिश्रीश्रेणिसन्निधिम् । नुवामि दमिनां नाथ, निर्मलाचारराजिनम् ॥२६५।। कर्णिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org