________________
२२
करुणाजलधिं विप्र - दत्तधर्मं सुमानिनम् ।
विच्छिन्नप्रबलापायं शोकभूधरवज्रिणम् ॥२३९॥
यशस्विगुणविख्यातं तन्त्रादिजयकारकम् । कच्छपोन्नतपादाब्ज-मरुणाधरपल्लवम् ॥२४०॥ ततप्रदत्तसद्बोधं, सुन्दराकारमण्डितम् । तथैव कृतसिद्धान्तं, नयशास्त्रादिधारकम् ॥२४१॥ कमनीयमहान्यायं, भवभ्रान्तहत श्रमम् । नख श्रेण्युच्छलद्भानुं तारस्वर्णमणीकरम् ॥२४२॥ हरिवर्ण्ययशोभार-मष्टदुष्कर्मभेदकम् । कलिकालेऽपि गरिम-दायकं सर्वशङ्करम् ॥२४३॥ रक्षाकरं जनव्याधि- विध्वंसकरणे परम् । याचकावलिसङ्गीतं, लक्षणान्वितमूर्तिकम् ॥ २४४॥ कदनच्छेदकं क्षिप्रं तन्वन्तं दिक्षु सुप्रभाम् । संहरन्तं जगच्छङ्कां रत्नद्युतिरदप्रभम् ॥ २४५ ।। परोपकरणे दक्षं, भट्टारकविशेषकम् । कल्पितत्वच्छरण्यानां स्वर्गापवर्गसौख्यदम् ॥२४६||
लक्ष्म्यालिविशदावासं, न्यायसिन्धुनिशाकरम् । निन्दावल्लीकुठाराभं श्रेयस्ततिविधायकम् ॥२४७॥
कलाशालिमहापाय- चाणूरैकमुरच्छिदम् ।
गणाधीशं जगद्ध्येयं, यानरलं शिवाध्वनि ॥२४८|| ललितप्रस्फुरद्वाचं, सङ्कीर्तिकृतनारकम् ।
कमलोपमपादाब्जं, दलभीत्यपहाभिधम् ॥ २४९ ॥ तुष्टचित्त: ससम्मोदं, रञ्जितो मुखदर्शनात् । वन्दामि श्रीधि(ध) रासूनुं, दर्शनस्य प्रभावकम् ॥२५०॥
अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
,
Jain Education International
चतुर्विंशतिभिः कुलकम् ॥ ॥ गतप्रत्यागतरीत्या परिधित्रयराजितं ९६ दलकमलचित्रम् ॥ तपगणकमलविकाशन- दशशतकिरणैकसममहं वन्दे । श्रीविजयदेवसूरिं, कामितवरकामकुम्भनिभम् ॥२५१॥ परिधिः ।
For Private & Personal Use Only
www.jainelibrary.org