________________
जान्युआरी - २०१३
मायाघकुसमं रुग्घी - दारवं निर्जरं हकम् ।
प्रणयन्तं यशोमन्तं, धनतत् सुयमं नुमः ॥ २२५॥
हन्तादारधीरम्यानि, प्रभाकामपरस्वर! |
सत् श्रेणिन्यापदो यः स, रयादनुददन् वरम् ||२२६|| परिधियुग्मम् ॥
कम्रपादद्वयाम्भोज-श्रीकृताम्भोजसज्जयम् ।
संबरारिसमाभासं, सस्फूर्ति श्रीकलामृतम् ॥२२७॥ तत्त्वाधारं गजेन्द्राभ-गमन श्रीप्रधारकम् । कष्टाम्भोधिनिमज्जन्नृ-तारणैकतरीप्रभम् ॥२२८॥ नानागुणकलावासं, दम्भदावाग्निवारिदम् । श्रीमुनीशं स्फुरज्ज्ञानं, दरवारनिवारकम् ॥ २२९ ॥ कलसं मरुतां कामं(म) - कामिते कर्ममर्महम् । प्रणमन्मानवानां मुद्दायकं तत्यकं ( ? ) सताम् ॥२३०॥ राजमानं तपः श्रीभि-मुषां विहताघकम् । कलधौतप्रभोद्यत् श्री भासुरं महिमाकरम् ॥२३१॥ नाराचभ्रूलतं माना-रभेदविहतादरम् । द्यां प्रति प्रगतश्लोकं, वर्णितग्रन्थपेटकम् ॥२३२॥ कन्दगर्जवं मोह - भिदं कन्दर्पशङ्करम् । तिग्मभानुस्फुरदनू-नप्रतापश्रियं सदा ||२३३|| जगज्जनगणाधारं तपस्विव्याधिवारकम् । कथितानन्तसन्मार्गं, प्रभूतविजयश्रियम् ॥२३४॥ भोजभानतभूपं मा- कुशलारामनीरदम् । घनतीर्थकदम्बैक-यात्रासुविधिकारकम् ॥२३५॥ कज श्रेणिसमाश्वासं, प्रकाशितमहागमम् । तपागणपतिं भीरु - रयनिर्भयदायकम् ॥२३६॥ दासीभूतसुरश्रेणि, धीरसङ्घाततायकम् । कदर्थितमहाकोपं, वरचन्द्रसमाननम् ॥२३७॥ निरवद्यतपोभाजं, कलयाकलयाश्रितम् । हंसाभगमनश्रीभी, रञ्जितानेकलोककम् ॥२३८||
Jain Education International
२१
For Private & Personal Use Only
www.jainelibrary.org