________________
जान्युआरी - २०१३
१७
(भुजङ्गप्रयातम्) कुमत्युच्छलद्दर्पकंसप्रणाश-प्रसृष्टौ मुकुन्दप्रबर्हप्रशंसम् । ललन्नीतिसद्रीतिकृत्कम्रकीर्ते !, भवन्तं स्फुरद्ध्यानमानौम्यशङ्कम् ॥१७५॥ महानन्तभावारिमालाविशाल-द्रुमोद्भेदमत्तद्विपेन्द्रकसारा ।। सदा तावकी नाकिनम्य ! प्रकुर्यात्, सुमूर्तिःप्रशंसापदं मामगम्यम् ॥१७६।। चकास्ति प्रभाप्रास्तसान्द्रामतन्द्रा-न्धकारां वचश्चातुरीतेतिचन्द्रा । नमत्सच्चकोरावलीनां प्रमोद-प्रदाने हि नक्तन्दिवा सावधाना ॥१७७॥ तितीर्षा यदि स्यादपारं विसारं, प्रसारि प्रति प्राज्ञ! संसारनीरम् । कथं तन्न भक्तः प्रभो ! प्रत्नसंसा-रपारस्य कत्तत् भयालीप्रकम्प्रम्(?)॥१७८॥ भजेयं भवन्तं भवद्दम्भनाशं, भदन्ताऽभयानाभमार्येभसिंह(?) । सहायः स्फुरत्तत्त्वसद्दत्तभासं, विसन्तापमानातिसद्येतिभीह ॥१७९॥
॥ लघुनायकमणिः ॥ प्रतिष्ठाप्रकृष्टः सुरैर्वन्द्यपादः, स्फुरत्तीक्ष्णप्रज्ञावता गम्यभावः । रतीशक्षितीशाभिमानप्रहर्ता, शिवं रातु रम्भासदागीयमानः ॥१८०॥ खरांशुप्रभस्ते प्रभोऽरं प्रतापो, जनाम्भोजखण्डप्रमोदैककारः । प्रकाशी यतः सर्वदिक्ख्यातकान्ति-र्यतोऽनेकप्रद्वैषिघूका असौख्या: ॥१८१॥ तरीकोपमानाऽस्ति ते श्रीमुनीश!, प्रमज्जत्सतः सन्ततं तारणश्रीः । . प्रभो ! हृत्पयोजे भभैवं(?) विचित्रं, जडत्वं न प्रस्पृष्टमस्ति त्वयैव ॥१८२।। हृतानन्तलोकौघपर्क मनोजा-न्धकारापहं सम्भज ध्वस्तकल्कम् । रसायां यतः स्युः स्फुरद्ब्रह्मभाज-स्तमोमण्डलं ध्वंसतो नारतीव्रम् ॥१८३॥
. . (उपजातिः) जम्भारिमुख्यानतसर्वदेवं, वन्दे सदा प्रास्तकुमानमायम् । यमासमश्रीपरिसेविताङ्गं, गतामयं श्रीकरमङ्गभाजः ॥१८॥ नयश्रियं दारितसर्वकोप-स्ततस्वगीर्वारितपापपङ्कः । यशोमलः सन्ततवीतशङ्को-ऽकोपप्रभुस्तापहरः शिवाय ॥१८५॥ वशाभिगीतोऽवतु सूरिराजो, वन्दारुनृणां शिववर्धकश्रीः । विवर्जितावज्ञजिनावलीनां, वरेण्यसम्भोधिवचःप्रपञ्चः ॥१८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org