________________
१६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
तप्तानन्ततपोवारं, मतिमद्वरबुद्धिरम् । संशयालीरसासीरं, यवनोद्बोधतत्परम् ॥१६३।। मदनादिविजेतारं, कोपपादपकुञ्जरम् । रत्नत्रितयदातारं, कमनीयवचोभरम् ॥१६४।। दर्शनामोदितापार-भव्यभव्यजनोत्करम् । मन्दराचलवद्धीरं, गन्धमातृप्रभाकरम् ॥१६५।। जयश्रीप्रस्फुरद्दार-सुभगाभोगभास्वरम् । गात्रसौरभ्यमन्दारं, नगप्रतिमताधरम् ॥१६६।। जगत्स्थवस्तुवेत्तारं, लावण्यावलिबन्धुरम् । रत्नाकरसुगम्भीरं, कष्टाटवीदवानलम् ॥१६७॥ कारुण्यजलनेतारं, नारीगीतगुणोत्करम् । नयनानन्दधातार-मज्ञतानलपुष्करम् ॥१६८॥ मधुकृच्छितिसत्तारं, रत्नातिनखोत्करम् । सागरोन्मादभेत्तारं, रङ्गत्सिद्धान्तसागरम् ॥१६९।। रसज्ञहृद्रुमे कीरं, काञ्चनद्युतिवत्करम् । जिनोक्तानुगगीर्वार-मभीप्सितपदार्थरम् ।।१७०।। भूत-प्रेत-निशाच(चा)र-लब्धभीत्यभयङ्करम् । जगज्जनगणाधारं, देव-देवीमनोहरम् ।।१७१।। गुरुतापाराकूपारं, नुवत श्रीमुनीश्वरम् । मानवास्त्रिजगत्तारं, ये समिच्छन्तु मङ्गलम् ॥१७२।। महानन्दपुरीद्वारं, जन्तुव्यामोहकृत्स्वरम् । देशनाभिन्नसंसारं, सूरिसन्मौलिशेखरम् ।। गुरुं सर्वार्थविस्तार-वेत्तारं हतभीभरम् ॥१७३।। षट्पदी । ॥ इति कङ्कणबन्धचित्रम् ॥ एकोनविंशतिभिः कुलकम् ॥ · रसेननन्दनं सार-लक्षणामरकीतिरम् । रक्षकं कमलाकारं, रङ्गद्भभूषणं स्मर ॥१७४।। ॥ इति कङ्कणमध्यस्थितस्वस्तिक-चामर-बीजपूर-कमल- .
धनुःस्थापनिकादिचित्रमयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org