________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
यस्यां पुर्यां सदारामे, नन्दनप्रतिमोपमे । त्यु(उ?)त्फुल्लत्कुसुम श्रेणिविकाशितदिगन्तरे ॥११७॥ सदालवालं किल रत्नविग्रहं, हन्ति प्रसारिस्फुटदुस्तमस्तमम् । विभ्राजिसत्काननमद्भुतं तरोः, सानन्दलोकाश्रितमुन्महःश्री(श्रिकम्?)॥११८॥
शरावसम्पुटः ॥ यस्मिन् महाहारिगुणो नरौघो, ललत्कलोद्यद्यतनः ससम्पत् । चञ्चच्चरित्रः सुसुमालितत्तत्कृताततश्रीपरमेष्ठिपूजः ॥११९॥ यस्यां सदा दानरुचिश्चिदाढ्य-ससंमदा सत्समरूपपट्वी । [---]वरं(?)रम्भाललना हि नाना-शृङ्गाररम्याऽपगताभिमाना ॥१२०॥ यत्राऽङ्गनानामसमो महस्वि-गाङ्गाम्बुदीप्रप्रभ एव वर्यः । गुणो नरान् सन्ततमोददोऽदो-ऽघभेददत्तादर एव भाति ॥१२१॥ यदिभ्यसंसत्सदनं नगेन्द्र-भाभामलश्रि श्रितताररम्यम् । सत्यं त्यजद्वान्ततरं सुशंसं, रराज जम्भारिविमानतुल्यम् ॥१२२।।
॥ ४ वृत्तैः नन्दावर्तचित्रम् ॥ सद्वाससौधप्रविराजमाना, नानागुणौघाप्रतिसन्निवासम् । सद्वासना सल्ललनाऽस्ति यत्र, त्रपालुरुद्यद्यशसां निवासम् ॥१२३।। भद्रासनम् ।। देवतेन्द(न्दु)मुखी जिष्णु(ष्णू)-रामासङ्घः स्फुरद्वचाः । राजते स्वर्णराजिश्री, यत्राऽसङ्ख्यकलावली ॥१२४॥ नागपाशबन्धः ।। इत्यादिचित्रकलितं, यन्नगरं लेख इव विभातितराम् । विविधालङ्कारगृहं, विबुधव्रजवर्णनीयगुणम् ॥१२५।। तत्र श्रीमति प्रवरे, अवरङ्गाबादसञ्जके नगरे । विविधविलासर्द्धिधरे, तातपदन्यासपूततरे ॥१२६।।
॥ इति श्रीपूज्यपदन्यासपवित्रितअवरङ्गाबादनगरवर्णनम् ॥ अभ्रंल्लिहानि सुधया धवलीकृतानि देवाधिदेवभवनानि सतोरणानि । नानाविधानि पुरि यत्र विभाति सम्यक् हारश्रियं किल दधन्ति पुरेन्दिरायाः ॥१२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org