________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
निशि तारकबिम्बितेक्षणा-च्छशिकान्तालयभित्तिभूमिषु । कजबुद्धिभृतो म तत्यजु-मधुपास्तान् धृतवार्मधुभ्रमाः ॥१३॥ वियदायतवम॑गाहना-दिव किं स्विद्यति शीतदीधितिः? । गलदच्छसुधामिषादिति, व्यजनत् वीक्ष्य यदालयध्वजः ॥१४॥ शशिकान्तजयद्गृहावली, विगलद्वारिझरा बभौ निशि । स्वभया विजयादिवाऽभवत्, श्रमखिन्ना द्युविमानसन्ततिः ॥९५।। अत एव किमत्र मीयते, धुसदैश्वर्यभृता कृता इव । प्रतिबिम्बिततारकोत्कर-च्छलतः सत्कुसुमौघवृष्टयः ॥९६।। युग्मम् ।। परिकीर्णमणीन् यदापण-स्थल इङ्गालधियाऽवलोक्य तान् । ग्रहणोचितविक्रमोऽभव-न्नगरे यत्र चकोरपक्षिणः ॥१७॥ गुरुपादविलोकनेच्छया, दिव एत्य धुपुरी तपस्विनी । अभवत् परिखामिषादसौ, सनिमित्तो हि विधिविधेयजः ॥९८|| क्रमतस्तपसोपलभ्य सा, समभीष्टं पदसेवनादि यत् । चलवीचिजलानुबिम्बित-च्छलतो नृत्यति किं प्रमोदतः ? ॥९९॥ युग्मम् ।। न चमत्कृदिदं क्षणेऽगुणं, प्रथमे द्रव्यमतर्कि तार्किकैः । प्रथमानगुणाः परःशताः, सह यद्यत्र जनुर्जनैर्दधुः ॥१००॥ गुणिनां गणनातिगा गुणाः, पुरि यत्र प्रसरन्ति सर्वतः । इव तद्भुव एव कीर्तयः, परिपूर्णेन्दुविभा इवाऽमलाः ॥१०१॥ अपि यत्र च सङ्घ ईप्सितैः, किल वर्षत्यखिले महीतले । अभवत् समशस्यवस्तुनः, परिलब्धिः सुखिनस्ततोऽर्थिनः ॥१०२।। अपि राजसमं विरेजिरे, कृतिनो यत्र विशिष्टदीप्तयः । अतिनिर्मलतामिताः पुरी, ललनाहारसमानसम्पदः ॥१०३।। जिनशासनमग्र्यभूषणं, शुशुभे यत्र दधन् जनव्रजः । नगरी पुनरेव तं ततो, वसुधामण्डलमेव तां पुरीम् ॥१०४।। अधिगम्य कलाः सदीप्तितां, किल जग्मुर्यदनेकनागरान् । कमलासुतमित्रमुन्नता, इव सर्वा क्षितिरुट्परम्परा ॥१०५॥ अपि यत्र निवासिनः पुनः, सदृशौपम्यमुदन्वतः कुतः ? । अपि दिक्षु विदिक्षु विस्तृतं, गुणरत्नैरितरस्य यत्त्वधः ॥१०६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org