________________
जान्युआरी - २०१३
न च तत्र तपोगुणाश्रिता, सुमनःपङ्क्तिरहोऽवतिष्ठते । इह सा च तदादिसद्गुणा-वलिकेलीप्रवरास्पदं मुदा ।।७९।। अपि तत्र महत्यहो ! वने, किल पञ्चैव चकाशिरे द्रुमाः । कुसुमैः सुरभि(भी?)कृतान्तरे, विपिनेऽस्यामपसङ्ख्यपादपाः ॥८०|| विबुधाधिप एककः पुनः, स तु गोपाभिधया प्रसिद्धिभाक् । इह वासकृतः परःशता, विजयन्ते तडदी(डिदि?)त्वरश्रियः ॥८१।। नगरीयगरीयसो गुणानिति, तस्या अमरावती पुरी । अनुगच्छति किं यदत्र वै, स्फुरति श्रीमहिमा प्रभोर्महान् ॥८२।। विविधामलरत्नजालयो-त्थितब्रह्माण्डदृतस्ववेगतः । प्रणमत्करसङ्घतः पुनर्दिवि वैचित्र्यमधाद् यतस्त्वियम् ॥८३॥ द्युविमानविमानताकृतोऽतिविशिष्टत्वरिष्ठधार्मिकाणाम्(? धर्मिणाम्?) । स्फटिकोपलकल्पितालयाः, किमु तद्दानजकीर्तयो बभुः ॥८४|| विधुबिम्बमिलत्स्वमौलयो, बहुरूपालिकनेत्रताभृतः । स्फुटिकाग्रिमविग्रहा गृहाः, किमु नाऽऽपुर्ध्वजगङ्गयेशताम्? ॥८५॥ रविकान्तमयालयाभया, कृतमार्तण्डभिया यया स्यात् । वदनं सदनं कुतीथिना-मदधत् प्रापितभीतिदुस्तमः ॥८६॥ प्रसृतायतया पताकया, वृणुते चञ्चलया यदालयाः । निजकाञ्चनकुम्भसन्निभं, समवेक्ष्य धुमणि स्वलज्जया ॥८७॥ विमलाङ्गभृतां शिरस्सु नः, सकलङ्कः स्थितवान् कथं भवान्? । इति यन्निलयः पताकया, ददते चन्द्रमसोऽतिताडनाम् ।।८८|| परमार्थभृतोऽमलात्मनः, सकलङ्का विकलङ्किनः पुनः । निगदन्त इदं यदालयाः, शशिलक्ष्मा वृणुते ध्वजोच्छ्रयैः ॥८९॥ सततं पुरतश्च पृष्टतः, प्रसरन्नीलमणिगृहत्विषा । परिचुम्बितदृष्टभूतला-स्तृणबुद्ध्या पशवोऽभवन्नताः ॥९०॥ यदगारशिरःस्थगैरिको-द्धटितस्पष्टघटोपलब्धितः । अभवद् धुमणिभ्रमान्निशि, धुनदीपद्मगणो विकाशभाक् ।।९१।। सुदतीवदनानुबिम्बतो, यदगारे विधुबिम्बशङ्कया । कृतपञ्जरसंस्थितिर्दिवा, विकटं कूजति चक्रमण्डली ॥९२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org