________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
सत्त्वान् पायादपादत्तभवसकुशलस्तारहारप्रकाशः सर्वज्ञप्रत्तसातप्रणतसततसत्सिद्धिसिद्धिप्रदः सः ॥६८॥ श्रीवत्सः ।। श्रीवर्धमानभगवानसमानमान श्रीवर्धमानभगवानसमानमान । श्रीवर्धमानभगवानसमानमान श्रीवर्धमानभगवानसमानमान ॥६९।। महायमकम् ।। इत्थं वर्णनपद्धति प्रणयतां नानाविधालङ्कृतिश्रेणीभूषितनैकवृत्तनिवहैरानन्दनं सर्वतः । नत्वा तत्त्वविदं महोनिधिमिमं सैद्धार्थितीर्थङ्करं हीश्रीबुद्धिनिवासमन्दिरमहो ! संस्फूर्ति(त)कीर्तिश्रियम् ॥७०॥ ॥ इति श्रीवर्धमानजिनप्रणामकरणपद्धतिः ॥
(वैतालीयम्) अथ सा नगरी नरामरा-सुरसद्विस्मयकारिणी पुरा । पथिकैः प्रथमं निजागते-रतिथित्वं समनायि चक्षुषोः ।।७१।। परिपीय तदेकमन्दिरं, नवनव्यं प्रथमानमुत्सवम् । अपि तैर्जनितं विचित्रितै-रिव जीवद्भिरहो सविस्मयैः ॥७२॥ वरवर्त्मविवर्त्तिनस्ततो, विषयीभूतविनोदिवस्तुनः । विशदास्पदमेत्य तत्पुरं, परमानन्दपदं विजज्ञिरे ॥७३॥ तदवेक्षणतः स्वचक्षुषोः, किल निर्माय सुपारणां ततः । पुरि तत्र विमेनिरे निजं, स्थितिमाधाय कृतार्थमागमम् ॥७४।। स्फटिकाद्रिसमस्फुटस्फुर-त्स्फुटिकागारकराकरैरिव । दधती परिहासिकां तु या, प्रथितायास्तत एव किं दिवः ? ॥७५।। किल तत्र समस्तवस्तु यत्, सकलं तन्नगरे सदूषणम् । सकलङ्कतया त्वनीदृशं, नगरेऽत्राऽस्ति तदद्भुतत्वभृत् ॥७॥
॥ अर्थतः षड्भिः कुलकम् ॥ तथाहि- धनदः पुरि तत्र योऽस्त्यहो !, स पुनः किम्पुरुषेश्वरः स्मृतः ।
इह ते प्रतिसौधमद्भुता, विजयन्ते नवनव्यभोगिनः ॥७७।। किल तत्र य ईश उच्यते, स च षण्ढससुतोऽस्थिमालिकः । इह ते शतशो विरेजिरे, सुपुरोऽनर्घ्यविभूषणं महत् ।।७८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org