________________
६
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क
-
जनय श्रीजिनाधीश !, भववारकसन्मत! ।
तत्त्वज्ञ! ज्ञत्वतत्सार - रसातं तततं ततः ॥४३॥ त्रिशूलम् ॥ जंजनीतुं ततं सातं, तत् सामर्हन् सदा भुवि । विभुर्दासजगल्लोकः, कलोदयिकलायुतः ॥४४॥ शङ्खः ॥ जम्भजिद् भक्तिभरभाग्, यस्य तं संस्तुवे समम् । मतिमन्तमहं मत्यमममत्वमतामसम् ||४५ || चामरः ॥ जगत्तारकविस्तारि - गम्भीरवरवाक्वयम् । यशोभरलसद्राजजगद्व्याप्तततश्रियम् ॥४६॥ युग्मम् ॥ श्रीकरी ॥
जय त्वं जगदानन्द!, पदप्रास्तमहाभय! |
यत्नतः स्तुतिकृद् विश्व - दैवतो दममोदरः || ४७|| हलम् ॥ जन्तुजातजयश्रीतत्, तन्याद् वः परमं पदम् ।
दरभूग्नसंघात (?), तरणिश्चञ्चदायतः ॥४८॥ भल्लः ॥ जगदुद्धृतिमातन्या - न्यायवल्लीपयोधरः । रञ्जितानेकभूपालो, गतितर्जितसामज: ॥ ४९ ॥ धनुः ॥
जय श्रीकरपत्कञ्ज!, निजामलकुलध्वज ! ।
,
जगदुद्धर वीर! त्वं प्रमदप्रकरं ददत् ॥५०॥ द्वाभ्यां खड्गः ॥ जनुर्जरामहाकंस- संभेदसुरपानुज! ।
जलोद्यत्सद्घनाराव!, राजद्गुणभरो जनुः ॥ ५१ ॥ शक्तिः ॥ जन्मिनां मङ्गलव्रातं, जनय श्रीविभो ! ततम् ।
शम श्रीललनाक्लृप्त-सङ्ग! विश्वविबोध ! तत् ॥५२॥ छत्रम् ॥ जहीहि भगवन्नित्यं, मदन्तं तनुतं दम [म् ] । कुरु भक्तियुतं लोकै-र्नगधीर ! रधीगण ! ॥५३॥ रथः ॥ जगतीगतसत्कीर्ति-जिन! निर्जितदुःस्मर !
रक्ष तातारभिद् वीर! सुमनोमनदत्त सः ॥ ५४ ॥ कलशः ॥ जय दासेभवोत्तंस!, परदानप्रदः सतः ।
Jain Education International
खण्ड १
दादानधरमादोवो (?), सेनधनवरप्रभा ॥५५ ॥ युग्मम् ॥ अर्धभ्रमः || जज्ञे येन नृता सर्वा, सद्बुद्धिः सिद्धिगामिनि ! | भजे तं तप्तदुस्तप्य - तपसं सकलं जिनम् ॥ ५६ ॥ शरः ॥
For Private & Personal Use Only
www.jainelibrary.org