SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ तं लब्ध्वाऽपि प्राणभाजो भजन्ते, ततः (तं तं?) सिद्धिद्रङ्गवासं परत्र । . चित्राच्चित्रं तत्सतामेति चित्ते, किं वा सन्तोऽचिन्त्यमाहात्म्यभावः(वाः) ॥३०॥ (उपजातिः) किञ्चिन्निजध्यानविधानतो यो, नयंस्त्रिलोकी निजवश्यभावः (वम्?) । विश्वत्रये यः किल पूज्यतेऽहं-श्चित्रं स लेभे न हि धूर्तभावम् ॥३१॥ यदुत्तमानामिह मध्यवर्ती, जहाति नो मानसतस्करत्वम् । विचित्रकृत् तस्य चरित्रमेतत्, श्रीवर्धमानस्य विलोकयन्तु ॥३२॥ धत्ते स वक्त्रप्रमुखान् स्वपाणा-वपि(?) स्फुटं हन्ति विपक्षपक्षान् । निश्छिद्य पापानि तथाऽपि लेभे, सिद्धिं स्वयं तत् खलु चित्रकर्तृ ॥३३॥ चोद्यं कथं मुक्तिपदप्रगामी, भवेज्जिनेन्द्रस्त्रिशलाङ्गजन्मा । अद्याऽपि यावन्महतां मनोभ्यः, स्पष्टं समाप्नोति नयंश्च मुक्तिम् ? ॥३४॥ चित्तं सतां वासगृहं विधाय, तत्र स्थितस्तद् विमलीकरोति । यः श्रीजिनाधीश्वरवर्धमान-श्चित्रं तथाऽप्येष ममत्वभृन्नो ॥३५।। यं संस्तुवन्तः पुनरेव निन्दा-परायणाः स्वोचितमाप्नुवन्ति । शुभाशुभं यच्चरणाद् विचित्रं, स रागविद्वेषहरस्तथाऽपि ॥३६॥ अगम्यलक्ष्मीरपि योगिनां यो, न दानदाता तदपि क्षमायाम् । तदेकरक्तात्मजनव्रजस्य, चित्रं तथाऽप्येष समीहितप्रदः ॥३७|| येभ्यो जिनाधीश्वर ! योगभृद्भयः, कदाऽपि नो दूरतरं भवान् यः । तेषां न दत्ते निजगम्यभावं, चित्रं स कादर्यधरः कथं नो ? ॥३८॥ जिनाधिपानाकलनीयरूपं, किञ्चिच्चरित्रं भुवने यदीयम् । जाग्रन्महिम्नाऽपि निवासगेहं, मनःकृतं यत् परमाणुरूपम् ॥३९।। स्वस्तीन्दिरा यस्य सदैव सेवां, तदेकलुब्धा सरसां विधत्ते । सच्छङ्ख-पद्मावपि यो बिभर्ति, स्वपाणिपञ स तथाऽपि दुर्गतः ॥४०॥ भक्तिप्रगल्भाङ्गभृतां मनोब्धि-मध्यं वचोवीचिगणास्तु यत्तः । यथा यथा जग्मुरहो! तथा तथा, चित्रं बभूवेत्यजडाशये तत् ॥४१॥ अथ चित्रकाव्यानि जनानां विहितामोदं, वन्दे श्रीवीरतीर्थपम् । परमश्रीपदं देवं, दमकानननीरदम् ॥४२।। मुशलम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy