________________
जान्युआरी - २०१३
लिप्सोस्तत्तुलनां हियोऽपि न हि ते नो कैः पुरस्कुर्वतः सूर्यं यस्य नखाः करिव हसन्त्येवं स वः श्रेयसे ॥१२॥ स्वस्तिश्रीजनकोऽस्तु यन्नखततिर्भास्वत्करैः संनमत्सन्मौलिं परिमृड्य सन्मुखमिवाऽऽलोक्येति वक्ति स्फुटम् । चेदभ्यन्तरदुस्तमोहतिपरास्तन्नः स्वचित्ते स्थिति धत्ताऽस्मत्स्थितितः प्रयाति न कुतो यस्मात् तमः सर्वतः? ॥१३।। तस्याऽस्त्वस्तु जिनेश्वरस्य चरणोद्भूतप्रभूतप्रभास्फारीभूतनखोत्करस्य च रवेः साम्यं कुतश्चिद् गुणात् । एकं किन्तु समाश्रिता अपि विभा माद्यत्तमोनाशका नीचैस्तत्परमाश्रितास्तु नितरामुच्चैर्गतिं प्राप्नुयुः ॥१४॥ स्वस्तिश्रीगरिमागरिष्ठभगवान् सत्पुण्यपुष्टः प्रथं(थां) शिष्टानां श्रयतां मतां मतिमतां तन्यात् प्रकृष्टः(ष्ट)श्रियम् । यस्योद्यन्नखरोच्छलत्करभरः पिण्डीकृतस्तय॑ते रागः स स्तुवतां जयादिव पदे लग्नोऽस्ति रागोऽथवा ॥१५।।
(वसन्ततिलका) स्वस्तिश्रियः समधिगम्य यतः प्रसारं मन्दारतो व्रततिवन्मरुतां प्रजग्मुः । सच्छायकायरुचिरः शरणं भवान्तद्घता(र्धान्ता?)ङ्गिनामिह स मोक्षफलं प्रदत्ताम् ॥१६।। स्वस्तिक्रमाब्जनखदर्पणमण्डलेषु .. यः पश्यति स्ववदनं नतिकृत् प्रभाते । श्रीवर्धमान इव कः खलु वर्धमानो न स्यात् स यन्नयविदुक्तिरनन्यवाक्यात्? ॥१७॥ स्वस्तिप्रशस्तपदपद्मपुनर्भवश्रीसङ्क्रान्तमद्भुततरश्रि विलोकयन्ति । पद्मं तडाग इव वक्त्रममर्त्यगौर्यश्चित्रं तदत्र जडतोपचितं न तद् यत्! ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org