SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ अस्मद्वच्चरणाश्रितौ भगवतो ये रक्तचित्ताः स्वयं . ते के नोर्ध्वगतिं भजन्ति सततं निश्छिद्य सद्यस्तमाः? ॥५॥ स्वस्तिश्रीरिति यस्य शस्यचरणाम्भोजन्मयुग्माश्रितेः श्रीरेव प्रतिवासरं समभजद् यस्मिन् प्रकृष्टान्वयम् । मन्ये तच्च विचित्रकृद् भगवतो यद् भक्तियुक्ताङ्गिनः सद्यः स्वस्तिसमन्विताः प्रतिभवं भूयासुरस्मिन्न के? ॥६॥ स्वस्तिश्रीरिव नः समाश्रयकृतेरासाद्यतां वन्द्यता स्वर्लोकादिजगत्त्रयेषु भविनः संवीक्ष्य किं सन्मुखम्? । जल्पन्तीति करप्रसारकरणाद् यत्पादकामाङ्कशाः स श्रेयस्तनुतां सतां स्तुतिकृतां तां तां ततां तां पुनः ॥७॥ स्वस्तिश्रीर्बहुरूपिणी(णीं) समभजत् विद्यां यदमिश्रयात् तद्भक्तिप्रणताङ्गिनोऽनुगमनो(ना)द् यस्याऽनुभावात् स्फुटम् । तत् सत्यं यदनेकनम्रभविभिस्तत्पादकामाङ्कशश्रेणीषु प्रतिबिम्बितैः प्रतिदिनं कैष्कैर्न साऽऽसाद्यते? ॥८॥ स्वस्तिश्रीपरिभूषिताः प्रतिदिशं यत्सन्नखाभीषवो दीप्यन्ते किममर्षतस्त्विति सदारक्तास्तमोध्वंसिनः । अस्मद्भक्तिकृतां कथं परिभवत्येतज्जगज्जन्मिनां स श्रेयोव्रततीततीनवघनः श्रीवर्धमानः श्रियः(ये) ॥९॥ स्वस्ति श्रीपरिपूर्णतां तनुमतां दत्तां स वीरप्रभुर्यस्योद्यन्नखराः करैर्दिशि गतैः किं ज्ञापयन्तीत्यहो ! । अस्माकं द्युतिनिर्झरेषु विहितैः स्नानैः शुचीभूय भोः श्रीमन्तः प्रतिपद्यतां नतिकृते शस्यात्मतां जन्मिनः ! ॥१०॥ स्वस्तिश्रीस्मितवारिजन्मवदनाद् वक्षःस्थलस्थायिनी मुक्ताहारलतेव यत्क्रमभवस्फूर्जन्नखानां ततिः । तस्याः किं स्फुरदोष्ठसङ्क्रमणतश्चञ्चत्प्रवालद्युतिर्भाति स्वस्ति तनोतु वः स भगवान् श्रीत्रैशलेयो जिनः ॥११॥ स्वस्तिश्रीततिसद्मनः परिणमत्तापैः स्वयं मूर्ति यान् धृत्वाऽऽसादि समस्तशस्तकमला दुष्टांहसां च क्षयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy