________________
जान्युआरी - २०१३
(१)
अवरङ्गाबादस्थ-भ. श्रीविजयदेवसूरि प्रति सरोतरात: श्रीविजयसिंहसूरेर्लेखराजहंसः
___- मुनि श्रीधुरन्धरविजयजी श्रीविजयदेवसूरीश्वरचलननलिनेभ्यो नमः ॥
(स्रग्धरा) स्वस्ति श्रीमुद्यदुद्यधुसदधिपनमन्मौलिमौलिस्थरत्नप्रोत्सर्पद्दीप्रदीप्तिप्रकरसरभरोन्मग्नमूर्त्तिः स्वयं यः । चित्रं नानाभवाविर्भवभयसलिलोन्मज्जदङ्गिव्रजेभ्यः प्रस्फूर्जद्भक्तिभाग्भ्यो जगति जिनपतिस्तारयेत् स श्रिये स्तात् ॥१॥ स्वस्तिश्रीप्रष्ठभासः क्रमणनखभुवः सर्वदिङमण्डलेषु प्रांशुप्रत्युग्ररज्जुव्रजवदिव समाकर्षयन्त्यः स्फुरन्ति । सद्भयः किं दातुकामा प्रभवसमरमा अष्टदिग्वैभवस्य यस्योच्चैर्वश्यभावं नयतु स भगवान् माद्यदन्तर्विपक्षान् ॥२॥ स्वस्त्यस्माभिः समत्वं किमवयवनखैस्तज्जिनेन्दोः पदानां लब्धुं शक्नोति साकं स्वदशशतकरैरप्यहो व्योमरत्नम्? । यस्मादन्तस्तमोघा वयमिव च हसन्त्युच्छ[ल]द्भिः करैस्तं यत्पादोद्यन्नखौघाः स मयि निजदृशौ तुष्टिपुष्टी विदध्यात् ॥३॥
(शार्दूलविक्रीडितम्) स्वस्तिश्रीसमवायि वीरभगवत्पादद्वयं स्तान्निजाद्वैतध्यानविधानशुद्धमनसा तच्छ्रेयसे भूयसे । नम्राखण्डलमण्डलप्रतिफलन्मौलिस्थमौलिस्फुरन्मालालीसुमनोव्रजः किमपि सत्तेजोऽभजद् यद्गुणात् ॥४॥ स्वस्तिश्रीप्रतिबद्धरागरसिका यत्पादकामाङ्कशाः प्रोच्चैः स्वीयकरप्रसारकरणैः संसूचयन्तीति किम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org