________________
१७५
जान्युआरी - २०१३ आश्लिष्यदेष विधुरङ्कमिषाद् यदंहि
___ पद्मं सदा स्मितसरोभवकान्तकान्तिम् । दृश्यां दिदृक्षुरिव जात्वनवेक्षितां तां,
नीयात्तमां स भवतां क्षयतामजन्यम् ॥१३॥ लक्ष्मच्छलाद् विधुरदीधरदेष किं नो,
____ यत्पद्युगोपरिसुसूनकलापकान्तिम् । पश्यत्तमांबकमुदं सततं नयन्ती
___ मर्हन् स लम्भयतु तानवमेनओघम् ॥१४॥ लक्ष्मोपधेर्यदतिसुन्दरपादसङ्ग,
लब्ध्वाऽपि वीक्ष्य भुवनत्रयकुक्षिगानाम् । पुजैर्दृशां कुमुदितं विधुमाशुपश्यैः,
सौभाग्यभाग्यचणमीहितदः स वः स्तात् ॥१५॥ दम्भं विधाय न विधुः किमु लाञ्छनस्य,
सेवां व्यधत्त भुवि जेतुमनाः स्वशत्रुम् । यत्पादपङ्कजयुगस्य विधुं तुदन्तं,
हन्यात्तमां स तमांसि वितमा वितानम् ॥१६॥ संसारजीवननिधौ वरपोतदंहि
युग्मं विधाय किमु लाञ्छनदम्भमिन्दुः । भेजे यदीयमिह तत्परपारलिप्सुः,
श्रेयांसि वः प्रदिशतात् स सदा जिनेन्द्रः ॥१७|| सा सौम्यता न किमधारितमां यदङ्ग
सङ्गेन्दुना समजनाम्बकमोदिनीयम् । पादावुपास्यजगतीह सदङ्कदम्भा
__ ज्जीमूततात् स भवतां भविकव्रतत्याम् ॥१८॥ लक्ष्मच्छलादियदयोगिवधूविघात
सञ्जातपातकभरैर्मलिनप्रतीकः । नो तज्जिहासुरिह किं यदगांहियुग्म
मङ्गीकरोति शयितोऽस्तु स वोऽघहन्ता ।।१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org