________________
१७४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
लोके विभूय सकलङ्क इति द्विजेशो
ऽवज्ञातिमेष किमु लाञ्छनदम्भतोऽत्र । यत्पादपद्ममनिशं परिबाभजीति,
श्रेयस्ततिं स भवतामवतंतनीतु ॥६॥ पादद्वये विकचवारिजमञ्जिमानं,
मोमूषतीह कलहंसितमिन्दुनोच्चैः । यस्याङ्कदम्भत उदित्वरकान्तिकान्ते,
___ संजर्हरीतु भवतां वृजिनानि सोऽर्हन् ।।७।। यत्पादचारुनखकान्तरुचेह चन्द्रो,
__निर्माति भक्तिमनिशं व्यपमूषितश्रीः । तल्लिप्सयेव वरलाञ्छनदम्भतोऽयं,
मालां स वो महयतान्महसां महस्वी ॥८॥ बिभ्राणमैहिकसुखांहतिवित्ततान्तां,
स्वर्दू विहाय भजतो भविकान् यदंड्योः । वीक्ष्य द्वयं तदुभयप्रदमाश्लिषद् ग्लौः,
लक्ष्मोपधेः किमु स वः सुखमां वितीर्यात् ॥९॥ लक्ष्मच्छलाद् विधुरवाप्य न किं यदंड्योः,
स्पर्श युगस्य भपतित्वमदादधीन्न ।। विश्वेऽत्र मुत्ततिलसत्तममूर्तिकान्तिः,
संशोशुषीत भवतां स कुपङ्कपङ्कम् ॥१०॥ लक्ष्मच्छलाद् यदतुलांहिपयोजयुग्म
संस्पर्शभूतसुकृतव्रजपूतगात्रः । ईशेन किं द्विजपतिर्बिभरांबभूवे,
मौलौ निजे स भवतां शिवतातिरस्तु ॥११॥ यत्पादपद्ममभयप्रदमेष चन्द्रो,
भीतोऽकदम्भत इतः शरणीचकार । स्वर्भाणुतो विघृणकालकरालकायात्,
किं नो ददातु विभयस्स मनीषितं वः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org