SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५२ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ (१५) देवकपत्तनस्थ-श्रीविजयप्रभसूरि प्रति साहिज्यपुरत: पण्डितहीरविमलस्य लेख: - मुनि त्रैलोक्यमण्डनविजय स्वस्तिश्रिय: प्रस्तुतवस्तुकर्तु-नि:शङ्कमकं सकलार्थसिद्धयै । सिषेविरेऽशेषसुखाश्रयाय, यस्यैष वस्तीर्थकरः स सिद्ध्यै ॥१॥ [उपजातिः] स्वस्तीन्दिरा सुन्दररूपमारा-द्वभाज राजानमजा यमेनम् । जगत्त्रयाशेषविशेषराज्य-चिकीर्षया हर्षभृता कृतार्था ॥२॥ स्वस्तिश्रियो यं वनिताः समस्ता, ददुर्मनोऽन्यासदृशं विशिष्य । प्रायेण सद्रूपवतां नताङ्ग्यो, मृगीदृशो नाम वशीभवन्ति ॥३॥ स्वस्तीन्दिराया जनिराजनिष्टा-ऽबलासु सर्वासु फलेग्रहिौँ । यतोऽन्यसामान्यवधूनिषेध्य, स्वयम्भूरुद्वाहमुवाह यस्याः ॥४॥ स्वस्तिश्रियः किं नु ततश्च निश्चला, यतो बभूवुर्विभुमेव वव्रिरे । श्रियश्चला इत्यपलापमापुः, कपोतपातृप्रभुणेवमुक्ताः ॥५॥ स्निग्धोऽसि किं मुग्धवधूभिरीश-स्तत्रैव नः पूरय चिन्तितार्थम् । ताभ्योऽधिकाऽहं परभागसङ्घ-मृगोऽनु सिद्ध्यङ्गनयेति मुक्तः ॥६।। स्मरस्यदो मेदुरपुण्यपुण्य-श्रीषेणनामा नृपतिभ(भ)वस्तत् । चिकीर्षुरस्माभिरमा विनोदं, चेतो निजं मोक्ष्यति मक्षु दक्षम् ॥७॥ अदायि अद्योपचितिर्जगत्या, जगत्यधीश! त्वयका तिरश्चाम् । क्षणान्मृगाणामपि किं न तन्नः, पदोऽप्यदो दास्यसि किङ्करत्वम् ॥८॥ बभ्राम शुभ्रच्छविना मृगो मा, भयेन मन्ये गगने हरीणाम् । असाध्वसस्तिष्ठतु शिष्ट एष, त्वदीयपादद्वितयानिमग्नः ॥९॥ पूर्णस्य सच्चन्द्रमसोऽपि पाप-मदांस(?)दम्भोऽङ्कतले कलङ्कम् । निविश्य विश्वे दुरितं दुरन्तं, जहीहि तन्मे कथितुं किमेणः ॥१०॥ सिषेविषुस्त्वच्चरणौ यदेणं, शिशुं निजं यत् प्रजिघाय तुभ्यम् । निजेन नाऽऽगाद् रजनीश ईश!, ह्यसंशयं बिभ्यति सापराधाः ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy