________________
जान्युआरी - २०१३ पण्डिता धन्यविजयाः, सदाचारपरायणाः । सौभाग्यैकगुणागाराः, श्रीतत्त्वविजयाः शुभाः ॥२४॥ इत्यादिसाधुसिंहानां, तत्त्वसेवाविधायिनाम् । वन्दना चाऽनुपूर्वा च, यथापर्यायमादरात् ॥२५।। अत्रत्यानां च साधूनां, प्रसाद्या परमैर्यथा । पण्डिता वीरकुशला, लब्ध्यादिकुशलस्तथा ॥२६॥ भूपतेः कुशलश्चैव - लाडकर्षिमुनिस्तथा । सौभाग्यकुशलाह्वानो, कान्तेः कुशलसंज्ञकः ॥२७॥ कमलात्कुशलाह्वानो, झंझर्षिश्च मुनीश्वरः । कलर्षिर्नामतः साधुः, सर्वे प्राञ्जलयः प्रभुम् ॥२८॥ त्रिसायं तातपादाब्नं, प्रणमन्ति प्रमोदतः । पार्श्ववर्तिमुनीन्द्राणा-मेतेषां व्रतिनां पुनः ।।२९।। अत्रत्यः सकलो भक्त्या, सङ्घः श्रीतातभक्तिभृत् । प्रत्यहं नंनमीति द्राक, तातपादपयोरुहम् ॥३०॥ अर्हन्नमनवेलायां, स्मारणीयः शिशुः स्वयम् । वलमानं प्रसाद्यं वा, पत्रं परमप्रीतिदम् ॥३१॥ भक्तिप्रहृमनाः प्रेम्णा, कान्त्यादिकुशलः शिशुः । श्रीमत्तातपदाम्भोजं, नंनमीति प्रमोदभृत् ॥३२॥ इति मङ्गलम् ॥ मार्गशीर्षधवलदशम्याम् ॥
[बहारना भागे-] पं. लालकुशलगणिलेख
-X
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org