SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ यथाकृत्यमिह प्रातः, पठन पाठनं परम् । व्याख्यानकरणाद्यं च, धर्मकृत्यं प्रवर्तते ॥११॥ श्रीमत्पूज्यपदाम्भोज-प्रसादाद्भुतवैभवात्। निर्विघ्नं जायते धर्म-कृत्यं सर्वार्थसिद्धिदम् ॥१२॥ अपरं अखिललोकचमत्कृतिकारिणी, मुनिपतेर्भवतापनिवारिणी । अवितथा वितथा नु भवेन्नहि, गुरुमुखप्रभवाऽपि सरस्वती ॥१३॥ [द्रुतवि०] अघटमानमिदं घटतां जनः, सुरगुरोरपि मौर्ण्यकृतप्लवम् । अपि भजेदहिरप्युपशान्ततां, विघटते वचनं सुगुरोर्नहि ॥१४॥ अभिभवं सहते सुरवारणः, समदगोघटितं विधिवाहितः । नरमते गुरुवाक्सितपत्रिणी, वितथशुक्लसरोवरसङ्कटे ॥१५॥ शरणतामुपयान्तिं सुरा अपि, प्रथितपुण्यरुचः प्रतिपत्तये । जिनमतानुगता दनुजन्मनां, विफलतामुपयान्ति वचांसि नो ॥१६॥ अभिभवं सहते यदि कहिचित्, मृगपतिर्मंगवर्गविनिर्मितम् । तदपि नो गुरुराजवचः क्षयं, क्षितितले प्रतिपन्नवि[धि]व्रजेत् ।।१७।। निविशते यदि मेरुधराधरः, क्षितितलं क्षितिमेति यदाऽर्णवः । गुरुवचस्तु तथापि न हीयते, मनसि मे प्रतिभाप्रभवः प्रभो ॥१८॥ सवितरि प्रथमानमहोदयं, कृतवति स्फुटता तमसः क्वचित् । न लभते चलतां वचनं गुरो-रिति मतिर्मनसि स्फुरति प्रभो! ॥१९॥ यदि कदाचिदुदेति दिवाकरो, वरुणदिक्पतिपावितदिक्पथे । न चलते वचनं सुगुरोरपि, निजमुखेन भवेत् प्रणितं स्वयम् ॥२०॥ तैस्तातपादैः प्रथितप्रसादै-ममाऽवधार्या प्रणतिस्त्रिवेलम् । ज्ञाप्या च तत्रत्यमुनीश्वराणां, यथावबोधं नतिरल्पका च ।।२१।। तथाहि वाचकश्रेणीशार्दूल-विनीतविजयाभिधाः । पण्डिताखण्डलश्रीम-दमराद्विजयाग्रिमाः ॥२२॥ रमणीयगुणागाराः, श्रीरामविजया बुधाः । अपरे रामविजयाः, चातुर्यरसपेशलाः ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy