________________
जान्युआरी
२०१३
(१४)
दीवबन्दिरस्थ - श्रीविजयप्रभसूरिं प्रति प्रह्लादनपुरात् पण्डितलालकुशलस्य लेख :
मुनि त्रैलोक्यमण्डनविजय
स्वस्तिश्रियः सेवधिरद्वितीयः, श्रीपार्श्वसार्वो जगदर्हणीयः । अचिन्त्यचिन्तामणिवद् विभूते-र्दाता दयाम्भोनिधिरस्तु सिध्यै ॥ १॥ [ उपजाति: ] स्वस्तिश्रियः सन्ततमाश्रयन्ते, ये पार्श्वसेवाविधिसावधानाः । प्रावृद्धृतुप्राप्तपयः प्रवाहा, इवोदधि द्वीपवतीसमूहाः || २ || एनं श्रीमन्तमर्हन्तमभिनोनूय भक्तितः ।
प्रह्लादनपुरप्रेङ्खत्-शीर्षपुण्ड्रमिव प्रभुम् ||३|| [ अनुष्टुप् ] यत्राऽर्हतां चैत्यपरम्परासु, क्षीणाष्टकर्मप्रतिमा विभान्ति ।
―
मनीषितार्थान् प्रविधातुकामाः, स्वर्गादिव स्वस्तरवः समीयुः ||४|| [ उपजाति: ] विमानतुल्यानि गृहाणि यत्र नार्यः सुरीभ्योऽभ्यधिकप्रभाढ्याः । महेश्वरा यत्र पदे पदेऽपि, लोका विशोका धनदानुकारिणः ॥५॥ गुरुर्गुणानामुदधिर्गरिष्ठः, स्त्रैणानि नाराणि मनोहराणि । मुमुक्षवः पक्ष्मपुटोपधार्याः, स्वाध्यायसद्ध्यानस [मु]द्यताश्च ॥६॥ इत्यादयो यत्र पदार्थसार्था, अनेकशः सन्ति विशेषवर्ण्याः । तस्माद् विधिज्ञैर्विविधैर्विलासैः, स्वर्गाधिकेयं किमु नोपवर्ण्य ॥७॥
श्रीमत्पूज्यपदाम्बुजद्वयरजःपूतीकृताभ्यन्तरे,
दिक्चक्रप्रथिते प्रभावनिभृते भूभामिनीलोचने ।
आनन्दप्रथमानपुण्यपटुतापाण्डित्यपूर्वाचलो
द्योतादित्यकरानुकारिसुगुरौ द्वीपाये बन्दिरे ॥८॥ [शार्दूल० ] जीर्णोद्धृतजिनागारः, सुन्दरोदारवेश्मनः ।
प्रह्लादनपुरात् पुण्याद्, भक्तश्राद्धविराजितात् ||९|| [ अनुष्टुप् ] आनन्दाद्वैतचेतस्को-ऽभिवन्द्य गुरुपत्कजम् ।
लालादिकुशलः शिष्यो विज्ञप्तिं तनुतेतराम् ॥१०॥
Jain Education International
,
१४९
For Private & Personal Use Only
www.jainelibrary.org