SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १४१ विशेषणानि ॥ सकलविशदानवद्यविद्यानर्तकीनर्तनविधानरङ्गस्थानसमानरसनाञ्चलानां दक्षिणावर्त्तत्रिरेखतिरस्करणालङ्कर्मीणमञ्जुलगलानां संहर्षसङ्घातोपशान्तिसञ्जातशान्तरसराजनिर्मलजलपटलप्रक्षालितनिजान्तःकरणकोमलपट्टकूलकल्मषमलानां मुदिराभ्रसमुदयमुक्तशारदकुमुदबान्धवबिम्बबन्धुरमरीचिसञ्चयसदृशोज्ज्वलनिखिलकलानां त्यक्तपरजनापवादानां सज्जनैः कृताभिवादानां सजलजलदगम्भीरनादानां नितान्तप्रोज्झितप्रमादानां श्रीतातपादानां शरीरवार्त्तवार्ताप्रवर्तकः प्रतिलेखः प्रसाद्यो मन्मानसमोदसम्पादनाय ॥ इति गुरुवर्णनम् ॥ तथाच श्रीतातपादैः शैष्याणवी प्रणतिः सायंत्रयेऽवधारणीया । प्रसाद्या चोपाध्यायश्रीविनीतविजयगणीनां सुजनमनःकैरवरजनीमणीनाम् । प्रसाद्ये च नत्यनुनती पं. श्रीआनन्दसागरगणि - पं. श्रीधनविजयगणि - पं. श्रीरविवर्द्धनगणि - पं. श्रीयशोविजयगणि - ग. श्रीतत्त्वविजयप्रमुखाणाम् । अत्रत्य - पं. श्रीलाभविजयगणि - पं. श्रीवृद्धिविजयगणि - पं. रत्नविजयगणि - ग. सत्यविजय - ग. विनयवर्द्धन - ग. ऋद्धिविजय - मु. गुणविजय - मु. माणिक्यविजय - ग. विवेकविजयप्रभृतीनां नतिरवधार्या । प्रसाद्ये च नत्यनुनती पूर्वोक्तानाम् ॥ तथाऽहं तु श्रीतातपादानां पादपद्मयोश्चञ्चरीकोऽस्मि । तन्ममोपरि भूयसी कृपाऽवधार्या । शिष्यस्तु श्रीतातपादानां नाममन्त्रमनुक्षणं स्मरन्नस्ति । श्रीतातपादैरपि श्रीजिननमनावसरे शिष्यः स्मरणीयः कार्तिकासितपञ्चम्यामिति मङ्गलम् ॥ तथा माहरुं शरीर हवई घणुं अडक्युं छइ । ते माटइ पं. रत्नविजयगणि श्रीतातजीनइं उत्संगि छई एह उपरि घणी कृपा करवी, घणां लाड पालवां ॥छ।। [बहारना भागे-] ॥ पूज्याराध्य ॥ सकलभट्टारकचक्रचकोरचन्द्रायमाणभट्टारक श्रीश्री५ श्रीविजयप्रभसूरीश्वरचरणसरसीरुहाणां पं. रत्नविजय - पं. कमलसत्कलेखः । -x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy