SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ आसाद्य ते भालसमानभावं, विद्वत्प्रदत्तं सिततामुपैति ।। अर्द्ध विधोर्युक्तमिदं सि [त:?] स्यात्, प्राप्नोति यः साम्यमहो! महद्भिः ॥३॥ [उपजातिः] त्वद्भालमालोक्य रुचाऽधिकं स्वाद्, विलक्षभावं दधतेऽर्द्धबिम्बम् । रात्रीश्वरस्यर्षिगणाधिनाथ!, प्रणष्टगर्वं समभूद् यतस्तत् ॥४॥ विनिर्ममे यद् विधिनाऽर्द्धबिम्ब, विधोस्तदासीद् वरमेष नो चेत् । प्राणेष्यदेतद् बत काऽभविष्यद्, भालोपमा ते मुनिशीतकेतो! ॥५।। त्वद्गोधिराढोन्नतशैलशृङ्ग-मपीक्षितुं नो अलमर्द्धचन्द्रः ।। ततोऽधिरोढुं विभुता कथं स्यात्, तत् तस्य वाचंयमसामयोने! ॥६॥ हीनोऽपि यत्तेऽर्द्धविधुस्तनोति, स्पर्द्धा ललाटेन समं कलङ्की । सा मूढताऽस्येति समस्तविजैविज्ञायते श्रीमुनिनाथ! लोके ॥७॥ यामद्वयोद्योति कथं तुला स्याद्, विभावरीनायकसामिबिम्बम् । तवाऽलिकस्याऽविरतं रुचीनां, पुजं दधानस्य हि धर्मचक्रिन्! ॥८॥ सर्वेषां प्रवरस्त्वमेव भुवने सच्छिल्पिनां हे विधे!, यद् भालं रुचिराकृति प्रविदधे गच्छाधिपस्य त्वया । आदत्ता सुषमेदृशी च भवता कस्मात् पदार्थाद् वद, चक्रे येन तव प्रभोऽलिकमिति स्रष्टा प्रशंसास्पदम् ॥९॥ [शार्दूल०] इति भालवर्णनम् ॥ भ्रुवोर्द्वयं तावकमेक्ष्य नेत-र्धन्वेति मारस्य बिभेति चित्ते । मां द्वे इमे जेष्यत एकमारात्, कथं महत्त्वं मयकाऽवनीयम् ।।१०॥ [उपजाति:] भ्रूभ्यां तवाऽधीश! रणे विभग्नो, विद्रुत्य शीघ्रं खलु चन्द्रहासः । अस्ति प्रविष्टो वरकोशवप्रे, योद्धं न शक्तो बलवर्जितत्वात् ॥११॥ ____ अथ गद्यम् । सन्ततमुद्राप्रोज्झितकराणामप्यसन्ततमुद्राप्रोज्झितकराणां क्रोडीकृतसर्वाभीष्टशमधनाना-मप्यक्रोडीकृतसर्वाभीष्टशमधनानां द्विधाऽप्यहीनोत्तमाङ्गवन्दनीयपादारविन्दानां द्विधाऽप्यवामदेवचरणवारिजातविहितप्रणतीनां सत्कमलौघाधोविधानपटिष्ठलपनपङ्केरुहाणामप्यसत्कमलौघाधोविधानपटिष्ठलपनपङ्केरुहाणां मञ्जुलमनीषावधीरितगुरूणामप्यमञ्जुलमनीषावधीरितगुरूणां अधरितधीरतामन्दराणामप्यनधरितधीरतामन्दराणाम् । इति विरोधाभासालङ्कारयुक्तोभयार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy