SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १३९ अथ गद्यम् ।। श्रीमति तत्र तत्रभवच्चलननलिनपरागनिकुरुम्बपवित्रीकृते अलकोपमशोभिन्यप्यनलकोपमशोभिनि लङ्कोपमानसहिते लङ्कोपमानरहितेऽपि द्विधाऽपि महत्तमोदरविवर्जितजने वनीमञ्जिमराजितेऽप्यवनीमञ्जिमराजिते बहुजनपराजितेऽपि परचक्राजयनीये प्राज्यानेकपरोचिते करेणुलेशप्रोज्झितेऽपि अनेकपरबलोचितेऽप्यनेकपरबलोचिते कपिशीर्षराजिराजिदुर्गेऽप्यकपिशीर्षराजिराजिदुर्गे अर्चितजिनजैनजनसमूहेऽप्यनर्चितजिनजैनजनसमूहे गुरुमनोहरपूजाकारिलोकेऽप्यगुरुमनोहरपूजाकारिलोके भूयःप्रियसुवर्णपत्रान्वी(न्वि)ते वैनतेयपतत्रिणीव मसृणाञ्जनरुचिकलभसञ्चयेऽपि धूसररुचिकलभसञ्चये बहुजडाशयेऽपि जडाशयोज्झिते द्विधाऽपि द्विरसनप्रचारवजिते द्विधाऽपि विचित्रचित्राञ्चितमन्दिरे विरुद्धधर्मैरपि त्यक्तविरोध इव श्रीजीर्णदुर्गनगरे ॥ इति नगरवर्णनम् ।। कमलायाः केलिकरणशरणत: पत्तनपत्तनतः संयोजितकरकमलयमलो भालस्थलेनेलातलमामृशन् हर्षप्रकर्षप्रादुर्भूतप्रभूतरोमाञ्चो हार्दहंसाभीशुसङ्गमादुज्जृम्भितहृदयारविन्दः शिशुलेशः कमलविजयः सविनयं गीर्वाणगुरुविरोकगणेयावर्तवन्दनेनाऽभिवन्द्य विधिवद् विज्ञप्तिपत्रीसितपत्रिपत्नी श्येनीमपि बहुवर्णामिति चित्रप्रणेत्रीमुपत्रौकयति यथाप्रयत्नापेक्षस्वोद्भवं चाऽत्र कुशलकुमुदाकरो विस्मेरतामभिविन्दति श्रीमत्तातपादवदनविधूदयमहिम्नाऽथो अपरमुदयावनीधरेणाऽऽत्मीयशिरसि दशशतरोचिषि चामीकरकलस इवाऽऽरोपिते सति सङ्गराजिरे कातरेष्विव पलायनपरेष्वन्धकारेषु शिलीमुखेषु मधुपेष्विव सगानं राजीवराजीषु मधूपजीविषु विभाते जाते प्रधानस्वाध्यायविधानसाधुसाधुसिद्धान्ताद्यध्ययनाध्यापनजपतपःप्रभृतिनि धर्मकर्मणि सञ्जातशर्मणि जञ्जन्यमाने पर्यायोपनतं श्रीमदाब्दिकपर्वाऽप्यनपायोदयोपेतं समपनीपद्यत श्रीमत्तातपादनामधेयध्यानमहानुभावतः ।। अथ गुरुवर्णनम् ॥ रम्यदोषोऽपि निर्दोषो, जय त्वं मुनिनायक! । त्यक्तपद्मोऽपि सश्रीको, निरामोऽपि सदासरुक् ॥१॥ [अनुष्टुप्] त्वद्भालपीठं शुचिकुङ्कमाक्षरं, चकास्ति सम्पूर्णकलङ्गणाधिप! । भाग्यस्य राज्ञः पठितुं महार्थकं, किं पुस्तकं स्वे मनसीति शङ्क्ये(के) ॥२।। [वंशस्थ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy