SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३८ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ वामाङ्गजं कमठपापहठापहारं, हारं शिवाभिधवधूकलकण्ठपीठे । पीठे स्थितं धरणवज्रिकृते स्वतन्वा, तन्वाऽऽशयं श्रियमयंतमनन्तवामान् ॥७॥ इति मुक्तगृहीतचित्रम् । युग्मम् ।। अथ गद्यम् ॥ एतदीयतिरस्कृतानेकसरससरसिजम पुञ्जक्रमं अतुलबलकलितमोहमहामहीधवावधीरिताखिललोकासमानाभिमाननिईलनप्रवीणपराक्रमम् ऐनसीयसमुदयौग्रसेन्यवनिधनपाटनपाटवोपस्कृतत्रिविक्रमं कृतसुकृतसुजनोपशमरससंदोहसंपूरितस्वकीयमानससन्ततविहितसक्रमं मदीयामलभालस्थलेन समं परत्वपश्चाच्चरगुणविपक्षगुणाधिकरणं प्रणीय ॥ अथ नगरवर्णनम् ॥ येनाऽऽत्ता सर्वसंवत् प्रबलबलवताऽऽकृष्य रङ्कालकाया, मा मां बध्नात्वितीदं मनसि भयमतो बिभ्रती द्राग् ययौ सा । कैलासाद्रौ प्रणश्य प्रचुरमुतधनं स्याच्छिवं चेन्मदीये, बेरे(?) बुद्भवेति युक्तं श्रयति शिखरिणं स्वाधिकाद् यः प्रणष्टः ॥१॥ [स्रग्धरा] यः स्पर्द्धते काञ्चनभूधरेण, स्वकोन्नतत्वेन समं सदैव । यत्राऽस्ति वप्रः सरिपुव्रजाना-मभेदनीयो विहगैरलझ्यः ॥२॥ [उपजातिः] यत्खातिकाऽम्भोभरितातिमात्रं, धावज्झषव्रातसमुत्थफेना। सेवालवल्लिस्थगिताम्बुपूरा, समुद्रवद् राजति निम्नतायुक् ॥३॥ कृतापराधाविव लोहकीलै-विद्धौ कपाटौ भवतः प्रतोल्याम् । यद्वारणे सम्मुखलग्नबाणौ, यत्रोन्नतौ वीरनराविवाऽहो! ॥४|| विधाय विश्वां स्ववशां प्रभूतां, स्थितोऽस्त्यनम्रः खलु यत्र सालः । बिभ्रत् तति सत्कपिशीर्षमूर्जा, लङ्काधिनाथप्रतिमत्वमीत: ॥५॥ यत्राऽर्गला लोहमयी प्रलम्बा, बिलान्तरस्था खलु गोपुरेऽस्ति । अदीयमानाऽपि च यामवत्या-मभावतो दुष्टमलिम्लुचानाम् ॥६|| अट्टालको यत्र सुधाविदिग्धौ, विराजतः प्रांशुतरौ प्रकामम् । शङ्के समीपे ह्युपतस्थिवांसौ, कैलासभूमीधरशैलराजौ ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy