________________
१३६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
गङ्गविजयाख्यमुनयः, प्रेमश्रीप्रभृतिकास्तथा साध्व्यः । इत्यादिमुनिगणाना-मनुपूर्वा सा प्रसाद्या च ॥५७॥ अत्रत्यारविविजयाभिधविबुधा, विबुधाः श्रीजसविजयनामानः । भीमविजयाभिधाना, गणयो गणिसत्यविजयाश्च ॥५८।। हर्षविजयाभिधाना गणयो, गणिहेमविजयनामानः । तत्त्वविजयेन सहिता, लक्ष्मीविजयास्तथा गणयः ॥५९॥ खीमविजयेन सहिता, वृद्धिविजयसंज्ञकास्तथा गणयः । गणिचन्द्रविजयसहिता, मुनयो कर्पूरविजयाह्वाः ॥६०॥ इत्यादिसाधुसाध्वी-वर्गोऽत्रत्यश्च सकलसङ्घोऽपि । श्रीपूज्यपादचरणा-म्बुजयुगलं नमीति मुदा ॥६१|| आश्विनस्य सिते पक्षे, दशम्यां भानुवासरे । हर्षेण लिखितो लेखो, विज्ञप्तिरिति मङ्गलम् ॥६२।। लेखं लिखता मयका, लिखितं भवतीह हीनमधिकं वा । यत्किञ्चिदनुचितं वा, क्षन्तव्यं तत्क्षमायुक्तैः ॥६॥
सकलसुविहितभट्टारकचक्रवर्तिभट्टारकश्री १९... राध्यश्रीविजयप्रभसूरीश्वर चरणारविन्दानाम् ॥ सं. १७१६ वर्षे शिशुनयविजयस्य विज्ञप्तिः ॥
-x
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org