________________
१२८
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
जीतादिविजया देव-विजया मुनयः पुनः । जिनादिविजया लाल-पुरे च गणिपुङ्गवाः ॥४९॥ कमलाद्विजयाह्वानाः, सधर्मविजयाभिधाः । ......[अन्ये]षां मुनिरूपाणां, नतिर्धार्या महत्तमैः ॥५०॥ अत्रोचितं प्रसाद्यं च, कृत्यं कृत्यविदुत्तरैः । श्रीमत् - - - - - - - - - - ||५१।। कार्तिकस्य सिते पक्षे, सप्तम्यां भौमवासरे । प्रेम्णा विज्ञप्तिलेखोऽयं, लिखितो रातु मङ्गलम् ॥५२॥ श्रीः ।। किञ्च एषमो यदि धरित्री पावयितारः श्रीपूज्यचरणास्तदा सत्वरं तत् प्रसाद्यं येन मे विवन्दिषा फलवती भवति । श्रीपूज्यचरणानामपि धरित्रीपवित्रीकरणे भूयाँल्लाभो भवितेति पादोऽवधार्यः ॥श्रीः।।
[बहारना भागे-] पूज्यराध्य । भट्टारकसभासरोजराजीराजीविनीजीवितेश्वरभट्टारकश्रीश्री१८श्री विजयप्रभसूरीश्वरचरणसरोरुहाणामियम् । श्रीजीर्णदुर्गे महानगरे ।
-x
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org