________________
जान्युआरी - २०१३
१२७
भक्तिपीयूषधाराभि-वर्षणं कर्तुमिष्यते । पुष्करावर्तपाथोद-रूपेण मयकाऽनिशम् ॥३७|| धर्मक्षेत्रेषु येष्वेवं, शस्यसम्पत्तिहेतवे । अतिस्निग्धेन मुग्धेन, रासैस्तैस्तैः प्रसृत्वरैः ॥३८॥ युग्मम् ।। अस्मादृशाश्चकोराभा, येषु चन्द्रेष्विवाऽधिकम् । दधते परमानन्द-मेकपाक्षिकरागिणः ॥३९॥ एकपक्षोऽपि रागोऽयं, क्रमशः सर्वदैधते । अन्तरा यदि नैव स्युः, परे वार्दलवृन्दवत् ॥४०॥ भक्तिरागघनो येषु, समुल्लसति मादृशाम् । पैशुन्यकारिणो वाता, यदि न स्युस्तदन्तरा ॥४१।। यद्वा वाता अपि प्रोच्च-र्मेलकाः सज्जना इव ।
औदीच्याः केऽपि भुवने, वर्षेन्नभ्राट(?) यदीरितः ॥४२॥ युग्मम् ॥ इत्यनेकगुणश्रेणी-जन्यो रागो दिवानिशम् । राजते मादृशां येषु, चक्राणां भास्करेष्विव ॥४३।। तैः श्रीपूज्यैर्जगत्पूज्यै-वन्दना मामकी भृशम् । धर्तव्या मानसेऽन्येषा-मपि सा स्मृतिगोचरे ॥४४।। ढौकनीया तथा श्रीमत्-पूज्यपत्कजसेविनाम् । अनुनामश्च नामश्च, प्रसाद्योऽत्र व्रतस्पृशाम् ।।४५।। तथाहिविनीतविजयाह्वानाः, श्रीवाचकधुरन्धराः । रविवर्धनविद्वांसो, यशोविजयपण्डिताः ॥४६।। गणयस्तत्त्वविजया, अन्येऽप्यज्ञातसंज्ञकाः । ये केऽपि तेषां वतिनां, सर्वेषां पूज्यसेविनाम् ॥४७॥
अत्र चपण्डिता धीरविजया, वीरादिविजया बुधाः । पण्डिता रविविजयाः, शिवादिविजयास्तथा ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org