SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२६ यथाकृत्यं चाऽत्र व्यतिक्रान्ते निशाध्वान्ते, घातिकर्मणि दूरतः । केवले प्रकटीभूते, सूर्यालोके जगन्मुनेः ॥२५॥ वनाद् वनान्तरं यान्तः, पक्षिणस्त्रिदशा इव । सूर्यांशुकेवलोत्पत्ति, ख्यापयन्तीव सोमाः ॥ २६ ॥ प्रातस्त्यैर्नूतनोद्घोषै-र्हर्षकोलाहलोपमैः । झङ्कृतैर्मधुपानां तु, वीणादीनामिवाऽऽरवैः ||२७|| युग्मम् ॥ इति व्यावर्णनौचित्य-मादधाने समन्ततः । प्रत्यूषसमये जाते, दिक्कन्यानवयौवने ॥२८॥ सप्रभायां सभायां श्री - भगवत्यङ्गवाचनम् । व्याख्याने श्रोतृपुरतः, स्वाध्याये साम्प्रतं पुनः ॥ २९ ॥ ज्ञाताधर्मकथाङ्गस्य, वाचनं पाठनं पुनः । पाठार्हाणां तथा योगो-पधानोद्वाहनादिकम् ||३०|| धर्मकृत्यमभूत् सर्वं पर्वपर्युषणाऽपि च । क्रमायाता सती पर्वो - चितसर्वोत्सवोदधिः ||३१|| साडम्बरं सकुशलं, साधुसन्मानिताधिकम् । श्रीपूज्यचरणोपास्ति- स्तत्राऽजनि निबन्धनम् ||३२|| अपरं - अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क येषामशेषवैदुष्य-भूषणीभूतधीमताम् । गुणाः केनाऽपि नो मेया, ज्ञानिनाऽपि महात्मना ||३३|| एकतो यदि पश्यन्ति, कवयो यान् स्फुरत्तमान् । जल्पनैकेन नो तर्हि, वर्णनां कर्तुमीशते ||३४|| अहो रूपमहो तेजः, काऽप्यहो दक्षताऽद्भुता । अहो औदार्यचातुर्य-धैर्यगाम्भीर्यवर्यताः ||३५|| नम्यता येषु लोकानां, सुदृशां येषु गेयता । ध्येयता येषु धीराणां, वर्ण्यता येषु धीमताम् ||३६|| Jain Education International For Private & Personal Use Only खण्ड १ www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy