________________
जान्युआरी - २०१३
१२३
श्रीमद्वाचकमुख्या विनीतविजयाभिधा गुणाम्बुधयः । श्रीशान्तिविजयवाचक-कोटीराः शान्तिशुचिमनसः ॥१७॥ श्रीमेघविजयविबुधाः विबुधाः श्रीअमरविजयनामानः । श्रीरामविजयविबुधाः विबुधाः श्रीमतिविजयाभिख्याः (यसंज्ञाः) ॥१८॥ श्रीजसविजया विज्ञा विज्ञाः श्रीरामविजयनामानः । श्रीतत्त्वविजयगणयो मुनयः सौभाग्यविजयाख्याः ॥१९॥ इत्यादिमुनिवराणां साध्वीनामनुनतिः प्रसाद्या मे । अत्रत्या अपि विबुध-श्रेष्ठा आणंदविजयाख्याः ॥२०॥ जिनविजयाभिधविबुधा गणयोऽपि च कनकविजयनामानः । कान्हर्षिमुनिप्रवरा गणयोऽपि च कान्तिविजयाख्याः ॥२१॥ नेमिविजयाख्यगणयो गणयो रत्नाह्वयाश्च ऋद्धिमुनिः । इत्यादिसाधुवर्गो नमति साध्व्यश्च वश्चरणान् ॥२२॥ एषां च नत्यनुनती प्रसादनीये यथार्हमन्तिषदाम् । श्राद्ध श्राद्धीसङ्घस्या-त्रत्यस्य च वन्दनाऽवधार्याऽऽर्यैः ।।२३।। झूणं क्षन्तव्यमिहा-ऽक्षीणो धार्यश्च मयि कृपास्नेहः ।
मार्गाश्वेताष्टम्यां भृगावदो लिखितमिति भद्रम् ॥२४।। पूज्याराध्यसकलभट्टारकसभाम्भोजाक्षीभालतिलकायमान-श्रीतपागच्छाधिराजभट्टारक
श्री श्री १०५ श्रीविजयप्रभसूरीश्वरचरणाऽब्जानाम् ।।
विनयविजयलिखित विजयप्रभसूरिविज्ञप्तिलेख पत्र ३
डा. १९७ नं. ८००९ हेमचन्द्राचार्य भण्डार, पाटण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org