________________
१२२
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क
गणनां गणनायक ! कः कुरुते गुणरत्नततेस्तव शुद्धमतेः । वियतः कियतः कलयेन्मतिमान् भगणानुत वारिदबिन्दुकणान् ॥६॥ सदनं सदनन्तमहामहसां वदनं वद नन्दितभव्यजनम् ।
हृदयस्य न कस्य वयस्य! गुरोः प्रददाति मुदामुदयं सदयम् ||७|| स हि तं सहितं सहितं लभते विभयो विभयोदयमात्तदयम् । हृदयं सदयं सुगुरुक्रमयो -र्न नया विनयोज्वलमानुते ॥८॥ करुणातरुणाम्बुजिनीकिरणं किरणैररुणैर्विगलत्तमसे । तमसंगमसङ्गतमाननुदं ननु दम्भविवर्जितमाश्रयत ||९|| महिमा नहि मानववाग्विषयो विषयोपरतस्य यतस्य विभोः । नहि ना तुहिनाचलमाकलये - दवधृत्य करेण करेणुमपि ॥ १० ॥ सुकृतफलदश्रेणौ वेणी नवाम्बुधराम्भसां विमलकमलाकेलीलीलाम्बुजव्रजवापिका । सुखशतपयोधेनुस्ते नु प्रभो ! प्रभयोल्लसद्विभव ! भगवन् ! सेवा देवाधिपैरपि दुर्लभा ॥ ११॥ तव चरणयोः सेवाहेवामवाप्य न के जना: द्रुतमभिमतान्यापुः सम्पद्बधूभिरवेक्षिताः । क इह मतिमान् गङ्गां भृङ्गाङ्गनाकुलपद्मिनीकुलकवचितां प्राप्य स्वीयां तृषं न निरस्यति ॥१२॥ इत्थं ये कविकोटिभिः सुघटितैः स्वर्लोकघण्टारणत्कारस्फाररसैर्नितान्तमधुरैर्गद्यैश्च पद्यैरपि । नूता नूतनपुण्यवैभवभवत्सौभाग्यभाग्योदय - स्फीतश्रीतपगच्छराज्यकमलासंश्लेषशोभाभृतः || १३ || तैस्तातपादैर्गलितप्रमादै गम्भीरनादैर्जितवादिवादैः । दत्तारिसादैर्मयि सुप्रसादै-विश्वार्घ्यपादैः करुणां विधाय || १४ || स्वाङ्गान्तिषद्वर्गशरीरवार्त्त वार्तोल्लसल्लेखवरार्पणेन । प्रमोदनीयः शिशुलेश एष विशेषतोऽशेषसुखाद्युदन्तैः ॥ १५ ॥ मम प्रणामस्त्रिगुणस्त्रिसायं सदाऽवधार्यो महनीयधुर्यैः । स चानुपूर्वाऽन्तिषदां प्रसाद्यो यथाक्रमं विक्रमशक्तिसिंहैः ||१६||
Jain Education International
For Private & Personal Use Only
-
खण्ड १
www.jainelibrary.org