SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १२१ इव लसद्विहाराः सकामनिर्जराश्च, आत्मान इवासुरता ज्ञानोपलक्षिताश्च, पोता इव महागुणाः सितपटपरिवृताः तरणतारणसमर्थाश्च । यांश्च विश्वाश्चर्यकृच्चरित्रपवित्रात्(?न्) प्रचुरप्रीतिभाजो भु(भू)भुजो 'वसुमति! दृष्टः स्पृष्टः कदाचित् क्वचिद्वा त्वयेदृशो महापुरुष'इति प्रष्टुमेव भून्यस्तमस्तकवदनकरकमलाः प्रणमन्ति, यैश्च पञ्चभिः पाण्डवैरिव विषयैरुपघातव्यतिकरे व्यवसितेऽपि केवलं स्वपराक्रमेणैव नरसिंहेनैव नीरनिधिनिस्तीर्णः संसारो निस्तीर्य च निर्भत्स्य(W?) नितान्ताविनीता(तां)स्तानिव तांस्तदधिकरणं रथ इव मोहचूर्णितः, येभ्यश्च द्रुह्यन्तः कषाया यत्सत्तावच्छेदकतावच्छिन्नानि जनान्तष्करणान्यपि व्यतीत्य वर्तन्ते, येभ्यश्च समुद्भूतः सम्भूत इव कर्पूरकर्दमितः क्षीराम्भोधिः सुरभयति भुवनानि सत्यशीलशौचसंवरसंवेगादिसमुद्भूतो यशोविस्तारः, येभ्यश्चाऽद्भुतलावण्येभ्यो नैकविधज्ञानादिगुणरत्नाकरेभ्यः साधितस्वरसाः समुद्रादिव घना गर्जन्तः प्रीणयत(न्त)श्च जना जगन्ति विहरन्ति, येषां चाऽगण्यान् गुणगणानसंख्यतारकाचक्रवालकैतवेन गणयतीवाऽरविन्दजन्मा, जलदश्च प्रत्याषाढगणनाय गर्वितो गर्जन्नुपैति गणयंश्च प्रत्यहं बिन्दुभिरनियूंढप्रतिज्ञतया जनोपहासैरिव धवलितशरीरः शरदि जनादृश्यतां गच्छतीति शङ्के, येषु च त्रिभुवनैकमल्लकामक्रोधाद्यन्तरङ्गाऽसहनविजयसुभगम्भावुकः पराक्रमः क्षमाऽनुकारिणी क्षमा च, उद्दामोन्मादिजगद्विदितवादिवादमदनागनागदमनीविद्या विमदता च, सदाचरणाचरणसंप्रवृद्धो जनानुरागः स्फारसम्पदवगणनपटुर्विरागश्च । श्लोकाश्चात्र - शुभध्याननिस्तष्टकर्माष्टकाय यशोमण्डलैर्विष्टपावेष्टकाय । गुणैः सात्त्विकैहींणविश्वम्भराय नमस्ते तपागच्छभूमीश्वराय ॥१॥ कलाकेलिमत्तेभपञ्चाननाय शिवस्वर्दुमस्वःसरित्काननाय । अकम्प्राशयन्यग्भवन्मन्दराय नमस्ते तपागच्छभूमीश्वराय ॥२॥ जगज्जन्तुजीवातुसद्दर्शनाय सशोभीकृताशेषविद्दर्शनाय । अविश्रान्तक्लृप्ताप्तधर्मादराय नमस्ते तपागच्छभूमीश्वराय ||३|| वचश्चातुरीस्फारसारासिधारा-दितोद्दामदुर्वादिवाग्डम्बराय । यशोऽम्भोजभृङ्गीकृतोर्व्यम्बराय नमस्ते तपागच्छभूमीश्वराय ॥४॥ महीभाग्यसौभाग्यवैराग्यधाम्ने प्रभाते जनोद्गीर्णमङ्गल्यनाम्ने । करालेऽपि कालेऽत्र भद्रङ्कराय नमस्ते तपागच्छभूमीश्वराय ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy