________________
१२०
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
तत्र श्रीमति विश्वाच॑-विहारवितरेन्दिरे । मन्दिरे सम्पदां शश्वत् श्रीमति द्वीपबन्दिरे ।।८।।
___यन्मुकुरबिम्बमिव वसुन्धरावध्वाः प्रतिबिम्बमिव नाकिनायकनगरस्य निधानमिव समस्तशस्तवस्तुस्तोमानां साम्राज्यमिव धर्मनरेन्द्रस्य हृदयमिव त्रैलोक्यस्य सर्वस्वमिव सौन्दर्यस्य उत्पत्तिस्थानमिव चातुर्यरत्नस्य । यत्र च केचिदट्टा मरकतमणिमयकुट्टिमप्रतिष्ठितनानारत्नराशितया विपुलतया च स्फुरत्तारकनभोविभांति(भ्रान्ति) बिभ्रति, केचिच्च समुद्गतन्दुलगोधूमनिस्तुषतुवरीराशितया पर्वतायितं घृततैलकूतूश्रवत्प्रवाहतया च निषधनिली(नील)मेरुवैताढ्योपशोभितमनेकपर्वतश्रवत्तरङ्गिणीप्रवाहं च मनुष्यक्षेत्रमेव कुक्षिगतीकृतं व्यञ्जयन्त इव विभान्ति, केचिच्च हाटकशिलाघटिता मणिसुवर्णनाणकगणनोद्भूतठकाराराविणो दारिदोषोपद्रवविद्रवाय मन्त्रवादिन इव विराजन्ते । ततः श्रीरामनगरात् शिशुविनयविजयस्सविनयं सप्रणयं प्रोद्भूतप्रभूतप्रेमप्रकर्षप्रोत्फुल्लपुलकाङ्करनिकुरम्बकरम्बितशरीरः स्वललाटतटसङ्घटितकरकमलकुड्मलयमल: सप्रपञ्चपञ्चयमभावनाप्रमितावश्यकशालिवन्दनेनाऽभिवन्द्य विधिवद् विज्ञप्तिपत्रमुपदीकुरुते यथाकृत्यम् ।
__ अत्रोदयगिरिशिरःकाननक्रोडविहारिणि जगज्जनारुन्तुदतमःस्तोमापहारिणि विद्रुमाङ्करनिकरन्यत्कारकारिकिरणाभरणहारिणि भगवति भानुमति समुदिते, समुदिते च धर्मशुश्रूषासमुल्लसदुल्लासशालिनि नैकग्रन्थावगाहनश्रवणोद्भूतविशुद्धमेधासावधाने सभ्यलोके, एकादशाङ्गस्वाध्यायपरिपाटीप्राप्तपञ्चमाङ्गस्वाध्याय-द्वितीयाङ्गव्याख्यानन्तरक्रमागतस्थानाङ्गव्याख्यान-साधुसाध्वीप्रारब्धाध्ययनाध्यापनादिधर्मकर्मकदम्बके सुखं समेधमाने, क्रमागतं श्रीपर्युषणापर्वापि सुपर्वार्पितप्रौढप्रतिष्ठं जिनभवनप्रारब्धसप्तदशभेदश्रीजिनार्चाविरचन-सप्रभावप्रभावनाभवन-सनवनवक्षणनवक्षणश्रीकल्पसुबोधिकावाचन-सार्मिकवात्सल्याद्यतुच्छोत्सवच्छटासच्छायं निरपायं निरमायि । वर्तते च कुशलमविकलं श्रीमज्जगन्महनीयचरणस्मरणप्रसत्तेः । अपरं -
येऽभङ्गवैराग्यरङ्गवासितान्तःकरणाः करुणापरायणा अशरणानेकजन्तुजातशरण्याः स्मरयन्ति पुरातनमुनीन्, ये च चक्रवर्तिन इव विजितसर्वविषयग्रामा नृपसहस्रसेविताश्च, तापसाश्रमा इव सुव्रताश्रिताः सर्वजीवाभयदानवदान्याश्च, समृद्धग्रामा इव बहुधान्यसुखदायिनः सगोरसाश्च, आरामा इव सगुप्तयः शुभफलदाश्च, सुरविमाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org