________________
११९
जान्युआरी - २०१३ यस्मै च स्पृहयन् महेश्वरोऽपि सितभसितोद्धूलितशरीरकरवीरनिवासी जटिलमस्तकविन्यस्तद्विजपतिपादः सुरशैवलिनीसलिलविमलीकृताङ्गश्चिरं दुश्चरं तपश्चचार, अनुपार्जिततादृक्सुकृतश्च निराशो गरलं कवलयांचकारेत्यवैमि, अद्भुतं च किमिह?, यस्मात् समुद्गतः समुद्गत इव कस्तूरिकायाः पुरन्दरानुकारिव्यवहारिविहितकर्पूरकुङ्कमाद्यनेकसुरभिद्रव्योद्वर्तनविलेपनजन्मा परिमलः समुल्लासितनासापुटैः पथिकैरापीयमानोऽपि परमप्रकर्ष प्राप, बहिरपि विचकिलचम्पककेतकमल्लिकादमनकाद्यनेकप्रसूनानूनवनसौरभद्वैगुण्यप्रागुण्यादिति, यस्य च विशुद्धसुधाधामधवलिमापध्वस्तसुधांशुमहांसि प्राकारशिरांसि घनाघनपटलमलीमसे नभसि केशववक्षसि व्यामुक्तमुक्ताफलकलापकलामाकलयन्ति, प्रासादा अपि स्वनिवासिलोकसम्पर्कसंक्रान्तपरोपकृतिप्रकृतय इव हिमकरदिनकरमण्डलक्रोडक्रीडत्केतुनिकुरम्बकैतवेन कलावतः कलङ्कपङ्कमपनी(नि)नीषव इव ता(त?)पनस्य तापमपजिहीर्षव इव द्वयोरप्यनयोनिरालम्बनगगनमार्गाध्वनीनयोः श्रमधर्मोदकरजांसि निराचिकीर्षवः विभान्ति, यस्मिंश्च निरन्तरं निवसन्त्यै स्वतनयायै सुखासिकाशकटानीतनैकक्रयाणककोटिपूर्णानि यानपात्राणि प्रत्यब्दं प्रापयति वारंवारमवारपारः परमेश्वरः । भवन्ति चात्र श्लोकाः - यत्सारभूतं भुवनत्रयस्य सर्वस्वमिन्दीवरमिन्दिरायाः । रत्नाधिकत्वान्महनीयबुद्ध्या रत्नाकरेण प्रतिपत्रपादम् ॥१॥ यद् वीक्षितुं स्व:पतिरप्यजस्रं सहस्रमणामनिमेषशालि । क्षिपन्ना(क्षिपन्?) प्रतीची प्रति तां दिवं च, प्राची च लज्जामलिनां करोति ॥२॥ येनाऽमितश्रीसुकृतार्जु(ज)नेन विश्वम्भरा भूरिभरातुरापि । ऊध्र्वं दिवोऽपि स्फुटतां प्रपन्ना परं पुरोपार्जितभोगभाजः ।।३।। यस्मै नमस्यन्ति न के विवेक-च्छेकैरनेकैः कृतिभिर्भूताय । श्रीमत्तपागच्छपतिक्रमाब्ज-रजःपरागद्युतिपाविताय ॥४|| यस्मादवाप्याऽमि[त] रूप्यराशीन् दिक्षु व्रजन्तोऽर्थिजना विभान्ति । श्रद्धावतां दान-यशांसि वप्तुं बीजप्ररोहानिव सन्दधाना ॥५॥ यस्योपमा नास्ति महीतलेऽद्य धर्मैकधाम्नः स्फुटभद्रदाम्नः । दूरोज्झितस्याऽन्त्ययुगेन वार्द्धि-मिवोत्तरीतुं ब्रुडताऽसहेन ॥६॥ यत्रेभ्यलोकाः स्फुटमेव देवाः स्थानान्तरोपार्जितपुण्यपण्याः । सौधाग्रवासाश्च धराप्सरोभि-वृताः कलाकोमलकम्रकायाः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org