________________
जान्युआरी - २०१३
( ९ )
उपाध्याय - श्रीविनयविजयलिखित: श्रीविजयप्रभसूरिविज्ञप्तिलेखः
११५
- विजयशीलचन्द्रसूरि :
यः
स्वस्तिश्रीचारुलोचनाऽऽलोचनाचारुचेतश्चाञ्चल्यचोरिकाचतुरचरणकमलयमलो प्रभुस्त्रिभुवनाश्चर्यकृद्धैर्यचर्यावर्जितेन निर्दम्भदम्भोलिपाणिना महादी रसंज्ञासम्बन्धशोभामम्भोजजन्मनेवाऽम्भोजवनखण्डोऽखण्डसौरभशोभालम्भितो योऽपि च चलननलिनाञ्चलचालनचलाचलचामीकरशिलोपलसहस्रस्खलनोद्भूतप्रभूतकन्दरविवरोदर
प्रचारिप्रचुरसमीरोत्थितनिनादैः प्रचण्डपवनाटोपकम्पमानपण्डकवनपादपप्रकारो
पधेघूर्णमानमौलिनाऽनवरतक्षरन्निर्झरप्रमोदाश्रुप्रवाहार्दितवपुषाऽद्यापि सदधिराज - क्रीडाधिकारधुराधुरन्धरेण भूधरेण तोष्ट्रय्यत इव ।
यश्च शङ्कर इव कामप्रदो दिनकर इव कमलोपलक्षितकरकमलः शिशिर इव सर्वाशाप्रसाधकरुचिः स्वर्ग इव सन्निहितेन्द्रभूतिः सुरसार्थोद्भावकञ्च विमान इव नभोगमनसङ्गतश्चिरत्नरत्नोद्योतरमणीयश्च नभोमार्ग इव भव्यतारकः समुदितज्योतिश्चक्रश्च जलधिरिवाऽनवरतमथनोदको मौक्तिकफलप्रापकश्च जम्बूद्वीप इव मन्दरागोपासितः सभारतजनश्च मन्दराग इव भद्रसालसहितोऽनल्पकल्पफलदश्च कल्पफलद इव सुमन:सहस्रपरिचितः सुप्रतिष्ठितमूलगुणश्च पद्मह्रद इव सश्रीक: परमकमलाकलितश्च पाताललोक इव सदानवर्द्धिः सदाभयशोभा [भा]सुरश्च ।
Jain Education International
यं च त्रिभुवनतिलकायमानमानमज्जनमानसमानसमरालमरालकालव्यालकलाकवलनभा(?)केकिलालसमलसमलद्मा (?) ङ्गिदुर्लभं तामरसङ्गतमपि नतामरसङ्गतं सकमलमप्यऽकमलं गतान्तरायमप्यगतान्तरायं समायमप्यमायं परममप्यपरमं कान्तमपि द्विधाऽप्यकान्तं सदासुहितं प्रभुं प्रभूतभक्तिप्राग्भारसंभृततयेव प्रणता अन्तःकरणभरणातिरिक्ततया बहिरुद्गतैरानन्दरसनिस्यन्दैरिव प्रमोदाश्रुभिरवलिप्तनेत्रपत्राः प्रतिरोमकूपपरिणतप्रेमप्रकर्षेणाऽवपीडितैरिवाऽपनिद्रैः क्वचिद्गन्तुकामैरिवोर्ध्वन्दमै रोमभिरवरुद्धदेहदेशा अहंपूर्विकया समुपासमानाः सुरासुरनरेशाः सरभसपञ्चाङ्गीनमनविगलितावचूलकमलमुकुलमालिकामकरन्दबिन्दुतुन्ददन्तुरिताङ्गुलीयकं प्रणमन्ति ।
For Private & Personal Use Only
www.jainelibrary.org