SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११४ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ पञ्चाङ्गुलिललितचित्रकरः प्रभूणां, यस्यैव मूनि कुरुते रुचिसन्निधानम् । पञ्चाङ्गुलिस्त्रिदशनायकशक्तिदेवी, मूर्त्तव तस्य कुरुते भुवि सन्निधानम् ॥१३॥ छत्रायते गणपतेस्तु करो यदीये, शीर्षे निरस्य सुचिरस्य दृढानुतापम् । तस्याऽतिशायिमहसः प्रभुता सुराणां, वश्या जनस्य भवतीति न तत्र चित्रम् ॥१४॥ श्रीमद्गुरोर्गणभृतः करपङ्कजस्य, माहात्म्यमुज्ज्वलतरं भुवनत्रयेऽपि । यत्स्पर्शनाद् भवति तत्क्षणतो गणेशः, प्रौढः कविः कविरपि प्रभया गणेशः ॥१५॥ एकः कविः समभवज्जगदीश्वरस्य, नाभ्यम्बुजाज्जगति सोऽपि परं पुराणः । गच्छाधिनाथ! भवतो वरपाणिपद्मा-न्नैके पुनर्नवनवाः कवयो भवन्ति ॥१६॥ शीर्षे धृते भगवता निजपाणिपझे, तेजः समुल्लसति यद् भुवनेऽप्यसह्यम् । पुंसस्तथाऽन्तरतमो विनिहन्ति सद्यः, सख्यं तदस्य रविपाणिपयोरुहास्ते ॥१७॥ पूष्णा धृतेः स्वकरयोः सरसीरुहे द्वे, याभ्यां न जाड्यहरणं क्रियतेऽत्र तादृक् । श्रीमद्गुरोः शिरसि सन्निहितं कराब्जं, जाड्यं निहन्ति सुधियां हृतमेव यादृक् ॥१८॥ व्याप्ते कलेरतिबले विबले बलद्विड्, मुख्ये सुरासुरबले विकलेऽपि मन्त्रे । जाग्रत्प्रभावभवनं भगवत्कराब्ज-मद्यापि शीर्षनिहितं जगतो विभूत्यै ॥१९॥ नालं स्थिरः परिमल: कमलस्य यस्य, पङ्केरुहं भवतु तज्जडताविधायि । पाण्डित्यहेतुभगवत्करपद्ममन्य-दामोदशालि नितरां कमलाविलासात् ॥२०॥ सूते यशांसि कुरुते गुरुते[ज]साढ्यं, धीरं जनं मतिमतामतिशायिलक्ष्मीम् । दत्तेऽष्टधा सपदि सिद्धिमतिप्रसिद्धिं, पुंसां शिरः स्थितमहो! गुरुपाणिपद्मम् ।।२१।। येषामिदं विजयते वरपाणिपद्म-माहात्म्यमीहितसमृद्धिकरं जनानाम् । तैर्विश्वपूज्यचरणैरवधारणीया, स्वीयानु(ननु?)प्रणमनप्रकृतिस्त्रिसायम् ॥२२॥ [रा.प्रा.वि.जोधपुर, ग्र.नं. २०४१५. पत्रसं. ३ पंक्ति २३, अक्षर ५०, सम्भवतः स्वयं लिखित, शुद्धतम] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy