SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १०७ (८) वर्गवटी (वगडी) नगरस्थित-गणाधिपश्रीमद्विजयप्रभसूरीणांपार्वे नाडुलाईत: महोपाध्यायश्रीमेघविजयगणिप्रेषितं विज्ञप्तिपत्रम् - महो.विनयसागर ॐ ह्रीँ श्रीँ अहँ एँ नमः । सिद्धम् । स्वस्तिश्रियामाश्रयणीयमूर्तिः, सुरद्रुवन्निर्मितकामपूर्तिः । स्फूर्तिर्यदीया महसस्त्रिलोक्यां, सर्वापि निर्वापितशत्रुकीर्त्तिः ॥१॥ [उपजातिः] अनाश्रयाणामभयाश्रयो यः, शरण्य एवाऽशरणं गतानाम् । श्रीमारुदेव: शिवसम्पदे वः, स्तात् भक्तियुक्त्या नतपूर्वदेवः ॥२॥ न यस्य किञ्चिद् विनयस्य धैर्यं, न यस्य चातुर्य-महार्यशौर्यम् । तस्याऽप्यवश्यं विदधाति वश्यां, साम्राज्यलक्ष्मी सुदृशः प्रभुर्यः ।।३।। न बन्धुरागद्रढिमानबन्धुरा, महीयसा प्रीतिरपि क्षमाभुजा । . भुजाबलं वा प्रबलं न यस्य, तस्यापि भृत्यस्य ददाति राजताम् ॥४॥ किं सेवितेन प्रभुणा घृणाक्षर-न्यायेन येन क्रियतेऽनुगः सुखी । जीयात् प्रभुः श्रीवृषभः सनातनी, श्रियं ददानः सकृदाश्रिते जने ॥५।। स्मृतोऽपि दूरात् परमां रमा जने, दधाति नाऽतिश्रमतः ससम्मतः । युक्तं जगत्यां प्रभुरद्भुतप्रभा-प्रभाकरः श्रीऋषभः सशाङ्करः ॥६॥ यावन्निषेवेत जनस्सचेतनः, सदा स दासः प्रभुवल्लभस्तदा । ततः परं नेति गतिर्न नेतरि, स्पृष्टा न यस्मिन्नियमादिमेऽर्हताम् ॥७॥ वयं स्मरामः किल रामभूपते-र्न राज्यनीतिं बहुभिः स्तुतामपि । यस्यां परं भक्तजने हनूमति, स्थितिः स्मृताऽमुद्रदरिद्रतायाः ||८|| अद्यापि चाद्यस्त्रिजगद्विनेता, ध्येयः परं यः स्मृतिमात्रकर्तुः । जनस्य नश्यत्तमसः प्रशस्यां, श्रीसम्पदं नन्दयति प्रसद्य ।।९।। सकृन्नमस्यादिविधानवश्या, नित्यश्रिये ते प्रभवो यशस्याः । एषु स्वभावे यदुपज्ञ एव, देवः शिवायाऽस्तु स मारुदेवः ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy