________________
१०६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
तत्रापि विगततन्द्राः, श्रीमत्श्रीवाचका अमरचन्द्राः । श्रीतातचरणवारिज-सेवारसरसिकमधुपेन्द्राः ॥७६।। विबुधाः खिमादिविजया, विबुधवरा रामविजयगणयश्च । प्राज्ञा विनीतविजया, धृतहृदयाः परमगुरुकृत्ये ॥७७|| सद्विद्या नयविजया, विबुधा विबुधाश्च वीरविजयाह्वाः । मतिमन्तो मतिविजया, विबुधवराः परमगुरुभक्ताः ॥७८॥ कृष्णविजयविबुधा अपि, पण्डितमुख्याश्च शान्तिविजयाह्वाः । अमरविजयवरविबुधा, विबुधवरा लीलचन्द्राश्च ॥७९॥ गणयोऽपि गङ्गविजया, जसविजयगणिवराश्च गणयोऽपि । रामविजयनामानो, गणयोऽपि च लालविजयाख्याः ॥८०॥ जयविजयाभिधगणयो, गणिनी चांपां तथा सती प्रेमां । शीलवती च जयश्री-निश्रीः सत्यशीलधरा ॥८॥ इत्यादिसाधुसाध्वी-वर्गाणां तातचरणभक्तानाम् । अनुनतिरपि प्रसाद्या, सद्यो वन्द्यैस्त्रिदशततिभिः ॥८२।। अत्रत्या धीमन्तः, प्रेमविजय-कुंअरविजयगणयश्च । सौभाग्यसिंघविजयाः, तेजविजयगणिवरा अपि च ।।८३।। सहजश्री-जयतश्री-प्रमुखाः प्रणमन्ति तातगुणरक्ताः । सङ्घः सकलोऽवत्यो, विशेषतो भक्तितो नमति ॥८४॥ न्यक्षं विज्ञप्त्यनौचित्यं, क्षन्तव्यं क्षन्तुमहितैः । हिताशिषः प्रसाद्याश्च, विशेषोदन्तगर्भिताः ॥८५॥ [अनुष्टुप्] नमतितरां वरभक्त्या, विशेषतः सिंघविजयशिशुरणुकः । बाहुलबहुलपक्षे, पञ्चम्यां सशिवमिति भद्रम् ॥८६॥ [आर्या]
॥ छः ॥ श्रीरस्तु ॥ छः ॥ [बहारना भागे-]
॥ पूज्याराध्य ।। सकलभट्टारकवृन्दवृन्दारकेशभट्टारकश्री१९
श्रीविजयदेवसूरीश्वरचरणेन्दीवराणां विज्ञप्ति ।
राजपुरात् उ० श्रीधनविजय ग० लेखः । सं. १७०४ वर्षे सूरतिबन्दिरे ।। काव्य ८६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org