SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १०५ इष्टेष्वनिष्टेषु च यस्य साम्यं, संवीक्ष्य दोषाः कृतरोषपोषाः । कुशिक्षशैक्षा इव ते स्वदोष-मज्ञायमाना हि परं प्रपन्नाः ॥६२।। यस्योत्कटं ध्यानबलं विचार्य, दूरं गताः सप्त दरा भियेव । तेऽप्राप्यमाणा वसति जनेऽस्मिन्, यद् वैरिणां वासगृहं प्रविष्टाः ॥६३।। येन स्वगत्या जितराजहंसो, विलज्जितोऽगाद् वरमानसे किम् । यद्वक्त्रमित्रं कमलं निरीक्ष्य, वैरं स्मरन् चञ्चपुटेन हन्ति ॥६४।। निषेवते यं जलधिस्समेत्य, पदोवरेखाच्छलतः किमेषः । विज्ञप्तिकां कर्तुमितीश! जह्याः, मे क्षारदोषं जगतामनिष्टम् ॥६५॥ योऽगाधसंसारपयोधिमध्ये, पतज्जनानां करुणास्पदानाम् । स्ववाक्तरण्यामधिरोप्य पारं, नयत्यजस्रं वरनाविको यथा ॥६६।। कर्पूरपूरोपमया यदीय-कीर्त्या त्रिविश्वं भृतमेव मन्ये । चेन्नैवमेषा जगति प्रपूर्णे, कुतोऽन्यथा प्राज्ञजनैः प्रगीयते ॥६७|| सद्विद्यया वज्रमुनीश्वरस्य, लब्ध्येन्द्रभूतेस्तपसोज्ज्वलेन । श्रीमज्जगच्चन्द्रमुनीशितुः सद्-ध्यानेन च श्रीमुनिसुन्दरस्य ॥६८|| श्रीसिद्धसेनस्य कवित्वशक्त्या, साम्येन च श्रीगुरुहीरसूरेः । षट्त्रिंशदाचार्यगुणैर्गरिष्ठो(ष्ठा), यः(ये) साम्यमाबिभ्रति सूरिराजा(जाः) ॥६९।। गुणैकसरत्नसुरोहणानां, कृपारसप्रीणितसज्जनानाम् । स्वस्थैर्यतस्तर्जितमन्दराणां, गाम्भीर्यतो धिक्कृतसागराणाम् ।।७।। श्रेयोवतां भाग्यवतां तपस्विनां, महात्मनां पुण्यवतां यशस्विनाम् । भक्त्योल्लसद्वासववन्दितानां, तेषां गुरूणां नयनन्दितानाम् ॥७१।। स्वहस्तलिखितस्याऽऽशु-लेखस्याऽऽगतिमुत्तमाम् । समीहते शिशुर्नित्यं, मनःसन्तुष्टिपुष्टये ॥७२।। [अनुष्टुप्] तेन श्रीमगुरुभि-र्गुणगुरुभिः प्रवरबुद्धिजितगुरुभिः । छन्दोऽलकृतितर्का-ऽऽगमशास्त्रे निहितनिजमतिभिः ॥७३।। [आर्या] सौवश्रीसारवपुः-परिकरनैरुज्यसूचनाचतुराः । लेखा: प्रसादनीयाः, प्रसद्य सद्य: स्वकीयशिशौ ॥७४।। प्रणतिरवधारणीयो-पवैणवं शैशवी विशेषेण । श्रीतातैरभ्रान्तै-निष्णातैविश्वविख्यातैः ।।७५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy