________________
१०४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
क्रमागते श्रीमति सर्वपर्व-गर्वान्धकारे दिवसेश्वराभे । श्री [वार्षिके?] पर्वणि सर्वदेवैः, कृतोत्सवे धर्मभराभिरामे ॥४९॥
[उपजातिः] स्नात्रं श्रीजिनसदने, पूजा जिनपस्य सप्तदशभेदैः । गीतनृत्यादियुक्ता, पुस्तकपूजाऽङ्गपूजा च ॥५०॥ [आर्या] श्रोतृजन[चि]त्तकल्पित-कल्पद्रुमकल्पकल्पसूत्रस्य । सक्षणनवक्षणैरपि, व्याख्याऽखिलशास्त्रसारस्य ॥५१॥ षष्टाष्टमवराष्ट[क-प]क्षक्षपणमुख्यकः । तपोविधिरष्टकर्म-क्षपणप्रवणों[ऽशुमान्?] |॥५२॥ [अनुष्टुप्] साधर्मिकजनपोषण-मघसन्ततिशोषणं सुकृतकरणम् । बहुजिनगुरुगुणगायन-मनुजानां(?) द्रविणदानं च ।।५३।। [आर्या] द्वादशदिनानि याव[-ज्जीवा?] भयदानघोषपटुपटहः । चैत्यपरिपाटिकायाः, करणं सङ्घार्चनं चैव ॥५४॥ इत्यादिपर्वकर्माणि, ससौख्यानि निरन्तरम् । निरपायतया सम्यग्, प्रावर्तन्त महोदयम् ॥५५॥ श्रीतातनाममन्त्र-स्मरणासाधरणैककारणतः ।
यद्वद् दिनकरकिरणै-स्सहस्रपत्राणि विकसन्ति ॥५६॥ अपरं- यन्ना[म]मन्त्रस्मरणं सुधातो-ऽधिकं परिप्रत्यवधारयामि । आद्यं [स]दाऽऽनन्दकरं जनानां, पीता सती तुष्टिकरा यतः सा ॥५७।।
[उपजातिः] येनाऽऽत्मरूपेण तृणीकृतः प्राग, श्रीनन्दनः साधुजनोपगीः । भवाम्बकोद्भूतहिरण्यरेतसा, नो चेत् कथं दह्यत एव शीघ्रम् ॥५८।। यद्वक्त्रराकाशशिना समत्वं, संबिभ्रता चन्द्रमसा यदाप्तम् । दुश्चिह्नमद्यापि घनाश्रमस्थ-स्तद्दर्शयत्यङ्कमिषात् किमिन्दुः ॥५९॥ कैलाशशैलोदरगौरकान्ति, यशो यदीयं नितरां भ्रमत् किम् । कृत्वा त्रिलोकी धवलामवैमि, मरुत्पथे क्रीडति चन्द्रदम्भात् ॥६०।। धर्मोपदेशावसरे यदीय-मुखेन्दुसंसूतवचःसुधां यत् । निपीय केचित् सुमनःस्वभावं, केचिद् व्रजन्त्यक्षरतां च धन्याः ॥६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org