SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ (७) सूर्यपुरस्थ-श्रीविजयदेवरिं प्रति राजपुरात् श्रीधनविजयोपाध्यायस्य लेखः (सं. १७०४) - मुनि त्रैलोक्यमण्डनविजय स्वस्तिश्रीसुकनी स्वयंवरवरा चञ्चत्कलाशालिनी, तीर्थेशं श्रयति स्म यं सुरसरित् शम्भु मुकुन्दं रमा । श्रीमद्दाशरथिं यथा जनकजा सर्वाचलं मेनिका, शीतांशुं किल रोहिणीव विलसत्पृथ्वी च पृथ्वीपतिम् ॥१॥ [शार्दूल०] स्वस्तिश्रीः श्रयति स्म यं जिनपतिं निश्शेषशोभाभरं, वैकुण्ठं प्रसभं पुराणपुरुषं गोपाङ्गनासङ्गिनम् । दासाहँ स्वपतिं जनार्दननरं प्रोत्सृज्य कृष्णद्युति, ज्ञात्वा वारिधिशायिनं च सहसा दामोदरं केशवम् ॥२॥ स्वस्तिश्री: कलहंसिकेव भजते यस्येशितुर्नित्यशः, पादाम्भोजयुगं स्वभावसुभगं संसारनीरातिगम् । सल्लक्ष्मैकसुकेसरं गतमलं दुःकण्टकैर्वजितं, वन्द्यं विश्वनरामराधिपतिभिर्विघ्नौघनिर्नाशकम् ॥३॥ स्वस्तिश्रीः कमलाभिराममनघं यत्पादपद्माकर, शि[श्रायाऽ] भयदं सदा मुनिजनैः संस्तूयमानं स्तवैः । ज्ञात्वेति स्वकजं सकण्टकमहाभृङ्गारवैर्भीषणं, सीतं क्लेशपदं जडैः परिचितं दुष्टैर्बकोटैर्हतम् ॥४|| स्वस्तिश्रियः सर्वत एव सर्वा, जिनोत्तमं प्राणपतिं प्रपन्नाः । यं प्रास्तदोषं जितरोषपोषं, विभाव्य चित्ते परयाऽतिभक्त्या ॥५॥ [उपजातिः] यस्याऽष्टकर्मक्षपणोद्यतस्य, नताङ्गिवृन्दारकपादपस्य । कथा स्मृताऽपीह पिपर्त्यभीष्टं, सतां नृणां कामगवीव वन्द्या ॥६।। यो मूर्त्तिमान् जङ्गमकल्पवृक्षः, समप्रदः सर्वजनैरिहोच्यते । समञ्जसं तन्न विभासते यद्, भयप्रदो नैव जनेषु कहिचित् ।।७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy