________________
जान्युआरी - २०१३
मृगावतीसमा साध्वी, साध्वी गुणसमन्विता । रूपाई भगवन्माता, विख्याता भुवि सद्गुणैः ।।१०६॥ इत्यादिसाधुसिंहानां, तातपादाब्जसेविनाम् । प्रसाद्ये नत्यनुनती, यथार्ह शमिपुङ्गवैः ॥१०७॥ तथाऽत्रत्यगणिविवेकचन्द्राह्वो, जयचन्द्राभिधो गणिः । व्रतिनी विजयाल्लक्ष्मी-निलक्ष्मीस्तथाऽपरा ॥१०८।। इत्यादिसार्वसाधूनां, तातप्रणतिकारिणाम् । त्रिसन्ध्यं नतगात्राणा-मवधार्या नतिस्तथा ॥१०९।। यदत्र लिखितं लेखे, न्यूनं वाऽधिकमेव हि । क्षन्तव्यं तत् क्षमासारै-गुरुभिर्गणधारिभिः ॥११०॥ यतःछद्मस्थो हि यथा ब्रूते, तथा कर्तुमशक्नुयात् । सम्यक् शयितुमशक्तः, पृष्ठग्रन्थिः पुमान् यथा ॥१११॥ कार्तिकस्य सिते पक्षे, द्वितीयावासरे वरे । वारे जम्भद्विषः सूरा-विति मङ्गलमुत्तमम् ॥११२।।
शुभमस्तु मम गुरूणाम् ॥
[पाछली तरफ-] ऐ नमः ।। स्वस्ति श्रिये प्रथमतीर्थपतिस्त्रिसायं, सस्तात् सतां वृषभलाञ्छितपादपद्मः ।...
[बहारना भागे-] उ. श्रीअमरचन्द्रग० लेखः ॥
-x--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org