________________
जान्युआरी - २०१३
९७
इत्यादिपुण्यकृत्यानि, बभूवुस्तातनामतः । जायन्ते च तथा नित्यं, तातानां सौम्यचक्षुषा ॥८०॥ अथ तपागच्छहस्तिमल्लस्कन्धविभूषण-वासवसमानभट्टारकश्री५ श्रीविजयदेवसूरीश्वरगुणवर्णनम् ॥ तपोगणमहाम्भोधि-समुल्लासनिशामणिम् । श्रीविजयदेवसूरि-मानयामि स्तुतेः पथम् ॥८१॥ सूरेविजयदेवस्य, कोऽहं सद्गुणवर्णने । यत्कीर्तिकामिनीभाले, कस्तूरीतिलकं नभः ॥८२॥ अयि त्वत्कीर्तिकामिन्या, भ्रमन्त्या जगतीत्रये । तारतारामिषान्मुक्ता-हारोऽयं त्रुटितः किमु ॥८३।। यत्रतत्राऽभ्रमत् कीर्ति-कामिनी ते निरर्गलम् । का शिक्षा दीयते तस्याः, क्षिप्तः शीर्षे ययाऽञ्चलः ॥८४|| त्वत्कीर्तिभ्रंमती विश्वे, श्रमं प्राप्नोति नो कदा । सत्यलोकोक्तिरेवैषा, चरणे भ्रमरोऽस्ति यत् ॥८५॥ जगद् धवलितं कीर्त्या, पङ्क्तिभेदः कृतः कथम् । न कालिमा दुर्वचसां, मुखस्था दूरतः कृता ॥८६।। शरदभ्रपटलीशुभ्रा, कीर्तिस्ते जगतीतलम् । पावयन्ती पावनाय, गता गगनमण्डलम् ॥८७।। लाटे धाटे च कर्णाटे, गूर्जरे मालवे तथा । यत्र तत्रापि ते कीर्ति-नटीव बहुरूपिणी ॥८८॥ यशःकीर्तिभरौ क्लान्तौ, भुवनत्रितयाटनात् । हिमोर्वीधरकैलास-मिषात् किं भुवि संस्थितौ ॥८९॥ अहार्यधैर्य निर्माय, निर्मायं त्वामहो! गुरो! । विधिर्जगति विख्यातो, नररत्नविधानतः ॥९०॥ वर्यात् तुर्यारकाच्छस्यः, पञ्चमोऽयं विशेषतः । यत्र स्वामिस्त्वमुत्पन्नो, भव्यानां तारको भुवि ॥९१।। यदीयवक्त्रसौभाग्य-मालोक्य रजनीकरः ।। विषमत्ति त्रपाभाना-ल्लाञ्छनच्छलतः किमु ॥९२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org